________________
२२४
श्रीमुनिसुन्दरसूरिविरचितः।
॥ अहम् ॥ जयश्रिया प्रातसुखप्रकर्षा ___ लसन्ति यद्भक्तिभृतः सहर्षाः । प्रह्लादराजप्रथितप्रतिष्ठं ___ स्तवीमितं पार्श्वविभुं गरिष्ठम् ॥ १॥ तव स्तुतिं यां विभवो विधातुं __ न निर्जराणां प्रभवोऽपि पार्श्व । करोति यत्तामपि मादृशोऽत्र
हेतुः प्रसत्तिर्भगवंस्तवैव ॥ २॥ प्रह्लादभूपालविहारचूडा__ मणिस्तुतिस्ते क जडः क हाऽहम् । अर्हामि यत्नं तदपीह यत्तां __ कृला लभन्ते पशवोऽप्यभीष्टम् ॥ ३ ॥ जनं सुरास्त्रातुमलं न तोषिता __ अपि स्तवैर्नाथ भवाद्भवस्थिताः । न तोष्यसे वं लभवोऽप्यरागधी
स्ततो गतिः का ननु बिभ्युषां भवात् ॥४॥