________________
मा
श्रीजिनस्तोत्ररत्नकोशः। भावद्विषो ये निहतास्वयेश
ते व्यन्तरीभूय भवद्रुषेव । निरौजसं खत्कुलजं समीक्ष्य ___ मां पीडयन्तीति मुनीन्द्र रक्ष ॥ २३ ॥ गणिवर तव सद्गुणैकलीनं
भवतु मनो मम गौतमाविरामम् । विजहतु तदिमे कषायमुख्या
रिपुनिकराश्च मयीति सुप्रसीद ॥ २४ ॥ एवं श्रीगणनाथ गौतमगुरो स्तुत्वा मयाऽभ्यर्थ्यसे नाम्नाऽहं मुनिसुन्दरो ऽभवमथो कुर्याः प्रसादं तथा । स्यां सर्वज्ञ यथार्थतोऽपि विशदज्ञानादिरत्नत्रयालब्ध्वा कर्मजयश्रियं शिवपुरे राज्यं लभे चाचिरात्॥२५॥ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिषिरचिते जयश्यके श्रीजिनस्तोत्ररत्रकोशे प्रथममस्ताव श्रीगौतमस्तोत्र
रत्रमेकविंशम्।