________________
श्रीजिनस्तोत्ररत्नकोशः। शिवश्रियः कोऽपि दृढोऽनुराग
स्त्वयीश सौभाग्यरमात्मकेऽहो। नामापि यत्ते जपतः प्रबुद्धा
नेषाऽखिलान् प्रापयतेश शर्म ॥१५॥ लदीयभक्तेः शिवशर्मलक्ष्म्या
मैत्री प्रभो कापि परा नवीना । खाधारकान् भव्यजनान् गुणाढ्यां
स्तस्यै पतीन् सा हि ददात्यशेषान् ॥ १६ ॥ न के पदार्था बहवो महान्त
स्तव प्रभावे तु विचिन्त्यमाने । पृथ्वी न पृथ्वी न गिरिगरीयान्
नाब्धिर्महीयान्न नभोऽप्यदभ्रम् ॥ १७ ॥ विदन्ति मानं जलधे वो वा
केचित्कथं चिन्नभसोऽपि विज्ञाः । न ते प्रभावे पुनरस्ति मानं
भवन्त्यमाना अपि किं तदाऽर्थाः ॥ १८ ॥