________________
२२० श्रीहनिमुन्दरसूरिविरचिंता।
मुक्तिं व्रजंस्त्वं न्यदधाः खनाम्नि ___सश्रीसखीनाथ निजानुलब्धीः । वसत्यदो यत्र नरे गणेन्द्र
वसन्ति यत्ता अपि तत्र सर्वाः ॥ ११ ॥ कान्ताः शिवाप्सौ तक लब्धयस्त्वां
दुःखाद् भ्रमन्त्यः किल वीक्ष्यमाणाः । नामापि शृण्वन्ति तवेश यत्र
सूत्कण्ठयेवानुसरन्ति तं दाम् ॥ १२ ॥ तवाऽऽतपस्यासमयात्कराब्जे
जज्ञे निलीना खलु केवलश्रीः । दीक्षामिषाद्यन्न्यदधा यदीय
शिरस्सु तं ते द्रुतमापुस्ताम् ॥ १३ ॥ त्वयाऽऽत्मनो वीरजिनाधिपेना____ऽभेदस्तथाध्यायि वशेन भक्तेः । अनन्तचिदर्शनवीर्यसौख्य
लाभात्तदात्मैव विभो यथाऽभूः ॥ १४ ॥