________________
श्रीजिनस्तोत्ररत्नकोशः ।
भ्यासीर्हृदो मे किमुताकृपत्लम् ॥ २८ ॥ भवद्विषः पासि सुससुरानपि प्रभुस्ततस्त्वां शरणं श्रयन्ति ते ।
दीनं श्रितं पासि न मां नु तत्त्वमप्यवेक्ष्य वक्रं तिलकं करोषि किम् ॥ २९ ॥
अकारि किं देव मया कुकर्म्म ममेदृशी घिग् यदनर्हताऽभूत् ।
जगचयेशोऽपि न पासि यन्मां
शोचामि हा हा हतकः खमेव ॥ ३० ॥
यद्यप्यद्रष्टव्यमुखोऽस्मि पाप्मभिः
प्रसीद हे नाथ तथापि मय्यपि ।
स्वदर्शनं देहि विधेहि मेऽर्हतां
यतो भवेत्साऽपि तव प्रसादतः ॥ ३१ ॥ प्रार्थये शिवममुष्यकारणं संयमस्तु विषमस्त्वयोदितः ।
न प्रमादरिपवस्त्यजन्ति मां
२१५