________________
२.१४
श्रीविसुन्दरसूरिविरचितः ।
तेऽप्यलं यदिह नाथ तवैव ॥ २४ ॥
संवृतेन मनसा महर्षयो येन निर्वृतिमनन्तशोऽप्यगुः ।
मां तदेव कुविकल्पभृद्भवा
भोनिधौ क्षिपति ही करोमि किम् ॥ २५ ॥
प्रभो निपीयापि तवागमामृतान्यवाप्य चारित्ररसायनान्यपि ।
सहे प्रमादादिगदैः कदर्थना
श्रयामि तत्कं शरणं हतोऽस्मि ही ॥ २६ ॥
दुर्ध्यानतो मे विरमेन चित्तं
बिभेमि पापान्नरकप्रदाच्च ।
स्वयं रिपुः स्वस्य तदित्यनन्यगतिस्तवाग्रे विलपामि नाथ ॥ २७ ॥ कृपाSSस्पदं मां तदुपेक्षसे किं
न हंसि मेऽद्यापि दुरापदं यत् । कृपा न किं खां त्वरयत्यधीशा