________________
श्रीजिनस्तोत्ररनकोशः। १९५
॥ अहम् ॥ जयश्रिये शास्वतशर्महेतवे
कल्याणकैः स्तौमि जिनास्तिथिक्रमात् । श्रीशंभवः केवलमाप कार्तिके
सितेतरे बाणमिते तिथौ जिनः ॥ १॥ नमेश्च्युतिर्भानुमिते१२जनुः पुनः
पद्मप्रभे विश्वमिते१३च तद्वतम् । वीरे शिवं दर्शतिथा१५ वथार्जुना
ऽभवत्तृतीया सुविधेर्मतिप्रदा ॥ २ ॥ हादश्यरे केवलदाऽथ मार्गे
कृष्णे शरे५ऽभूत्सुविधेः सुजन्म । तपोऽस्य षष्ठयां दिशि१०वीरदीक्षा
रुद्रे११ च पद्मप्रभनिर्वृतिश्रीः ॥ ३ ॥ शुक्ले दशम्या१०मरजन्मसिद्धी
हरे११नमिज्ञानमरवतं च । जन्मव्रतज्ञानलभा च मल्ले