________________
१९४ श्रीमुनिसुन्दरसूरिविरचितः । बहुविधमभिवीक्ष्य सर्वदेवां
स्तदुदिततत्त्वगुणांश्च तर्कनेत्रैः। शरणमगमकं तवैव पादा
ववितथतत्त्वनिधिं च पाहि तन्माम् ॥ ३१॥ श्रीसोमसुन्दरगुरुक्रमसेविनाऽर्हन्
दृब्धान्मयेति मुनिसुन्दरसूरिणाऽस्मात् । स्तोत्रान्ममान्यसुधियामपि देहि किंचि
त्तयेन विस्फुरति मोहभिदेर्जयश्रीः ॥३२॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्र. रत्नकोशे प्रथमप्रस्तावे श्रीजिनपतिमहार्थ
द्वात्रिंशकास्तोत्ररत्नं सप्तदशम् ।