________________
श्रीजिनस्तोत्ररत्नकोशः। १३३ स्त्वं दारिद्यमपास्य वाञ्छितमणिवर्णादिवः पुरा । प्रव्रज्योदितकेवलस्त्रिजगतो हलोपदेशैर्भवापायान् प्राप्तशिवोऽधुनाऽपि ददसे पार्थेहितानि स्मृतः॥१५॥ विघ्ना नश्यत, दूरमेव लघु रे रोगव्रज लं ब्रज । क्षीणाऽस्याशु दरिद्रतेऽद्य विलयं यातोऽसि दुःखोच्चय। हे संसार तवाद्य पारमगमं कम्मौघ ते मोघता यज्जज्ञे त्रेजगत्प्रियाकृतिचणः पार्थोऽद्य नेत्रातिथिः॥१६॥ नागेन्द्रन्तनुते सुखानि धरणः पद्मावतीसम्पदो वैरोट्या हरते च विघ्ननिचयं सर्वेऽनुकूला ग्रहाः । स्युर्देवाः सकलाः प्रसादविशदा दुष्टाः प्रणष्टौजसोध्यानाद्यस्य, मनोऽधितिष्ठतु स मे श्रीपार्श्व विश्वेशिता॥१७॥ ये शक्का न तपो विधातुमतुलं शीलं न धर्तु तथा नो योगे प्रभविष्णवो वितरणे नो न व्रतादिष्वपि । तेषामप्यभिवाञ्छतां शिवसुखं भाग्यैर्हदि वं स्थितस्तदाने प्रतिभूपदं प्रदधसे श्रीपार्श्व विश्वप्रभो ॥१६॥ ते धन्या भुवनेषु संस्तुतिपदं तेषां जनुर्जीविते