________________
श्रीमुनिसुन्दरसूरिविरचितः ।
शुर्यत्र पुनः प्रभावविभवा मन्त्रौषधानामपि । एकोऽसीप्सितदस्त्वमेव भगवंस्तस्मिश्चतुर्थे युगे ग्रीष्मे शुष्यति यज्जलाशयततिर्वार्द्धिः पुनर्गर्ज्जति ॥ ११॥ धन्योऽहं जिन मे फलेग्रहि जनुः श्लाघ्या निशैषैव च स्वपयोऽपि तपो जपादि च निजं मन्ये सदुच्चैः फलम् । मूर्त्ति नीलमणीमयीं दधदभूर्यत्सप्रसादोदितः साक्षात्त्वं फलवर्द्धिमण्डन मम श्रीपार्श्व नेत्रोत्सवः॥१२॥ त्वं मूत्ति विमलां दधन्निशि यथा स्वप्ने प्रसन्नः प्रभुः साक्षाद्भाग्यवशादभूर्विजयितां मे भाविनीमादिशन् । अध्यक्षानुभवास्पदं भव तथा सद्यः प्रसद्याधुना निर्देहोऽपि च जागरेऽपि भगवन् श्रेयःपदं स्यां यथा ॥ १३ ॥ देवानां किल कुम्भपादपमणींस्त्वन्मूर्त्तिकार्य सृजन्
श्रीमत्पार्श्वविभो चकार विशदोपादानहेतृन् विधिः । दृश्यन्तेऽत्र समग्रवाञ्छितमहादानादयस्तगुणा
स्ते च क्वापि न साम्प्रतं नयनयोर्यद्गोचरं बिभ्रते ॥१४॥ सौख्यं नैरयिकेष्वपि स्वजनुषा कुला तथाऽब्द भुव
१३२