________________
१४२
श्रीमुनिमुन्दरसूरिविरचितः। न केषामाश्चर्य जनयति फलं विश्वविदितम् ॥८॥ अरीनिर्जित्योदध्यवधि भुवमात्मैकपतिको
निवार्यानार्येष्वप्यखिलतनुमडातमनघाम् । मणीचैत्यैरुद्यैः सुभगवपुषं च व्यसनहत्
स राजा त्वद्भक्त्याऽधिगतविभवो नाथ कृतवान्॥९॥ स गोविन्दः सङ्घाधिपतिरमलैश्वर्यविभवो
न केषां श्लाघाया व्रजति विषयं शुद्धमनमाम्। तव प्रासादस्योद्धृतिकृतिमिषाद्येन कृतिना
समुद्दधे खात्मा भवजलधिपातोहवभयात् ॥१०॥ परं श्रेयः प्राप्य त्वमसि कृतकृत्यः खयमिदं
परेषां दातुं च प्रभवसि तदर्थाश्च कृतिनः। भजन्तेऽतस्ते त्वां मुदितमनसः स्वार्थरसिका
जिनोपेयं शुद्धौपयिकवशतः स्याद्विसद सत्॥११॥ प्रगल्भन्ते दोषैः कलुषमतयः सिद्धिविभवं ___ न भोक्तुं दातुं वा न च विरहितस्तैस्त्वदपरः। वृथा तत् क्लिश्यन्ते स्तवनविधिभिस्तस्य कुधियः