________________
श्रीजिनस्तोत्ररत्रकोशः। १४१ भवत्वेका सैव प्रथमजिन भक्तिस्त्वयि मम ॥४॥ विशुद्धा चेदतिर्भवति भवति प्रेष्ठफलकृत्
तदा किं स्यात्कृत्यं यमनियमदानप्रभृतिभिः । नृणां चिन्तारत्ने करतलगते नो यदुचिता
धनप्राप्त्यै नानौपयिकजनितक्लेशनिवहाः॥५॥ योगाभ्यासे निविडजडिमा धीप्रवेशो न शाब्दे
ब्रह्मण्यात्मन्यपि न च लयो नानुभूतिस्तपस्सु । येषां दानाद्यपि न विदितं त्वत्पदद्वन्द्वभत्त्या
तेऽपि ज्योतिर्जिनवर परानन्दरूपं लभन्ते ॥६॥ त्वद्भक्त्या यद्भवति भविनां मर्त्यनाथामरेन्द्रा
चैश्वर्याप्तिः स्पृशति हृदयं कस्य नेतस्तदेतत् । ज्योतिः किश्चित्परममुनयोऽप्यर्थयन्ते तपोभि
यद्योगाद्यैरपि तदपि यत्स्यात्करप्राप्तमस्याः ॥७॥ कुमारो भूपोऽभूज्जगदनुपमप्रौढिचरितो
भवेनैकेनैवामृतपदगमीयत्सुरभवात् । अणोरेकस्यैतत्तव जिन विभो भक्तिनिचये