________________
श्रीजिनस्तोत्ररकोषः।
१२७ ॥ अहम् ॥ जयश्रीस्तंभनाधीश श्रीमत्पार्श्वजगत्प्रभो। तव स्तवनतः कुर्वे सर्वश्रेयात्रियो वशाः ॥१॥ आरभ्येच्छामपि शुभफले ते स्तवे साभियोगा
मुक्त्यै सर्वेऽप्यमलसरसीवाम्बुने नाऽहुतं तत् । त्रैकाल्येऽपि ह्यपरनुतिषु क्लेशमात्रप्रदासू
द्युक्तास्ती• इव रविरुचिष्वर्णसेऽस्यै तु चित्रम् ॥२॥ कुशलः प्रकरोति कर्म तत्
प्रतिभात्यायतिसुन्दरं हि यत । इति कस्य भवत्परान् प्रभो
स्तुवतो नर्मपदं न कौशलम् ॥ ३॥ शिवसुखं ह्यपरे भवसङ्गताः
स्तुतिशतैरपि नो ददितुं क्षमाः। स्पृहयतोऽस्य तदेव तवैव तत् __समुचिता नुतिरर्थितदायिनः॥ ४ ॥ चित्रं न देवेषु परं प्रबुद्धाः