________________
१२६ श्रीहनिमुन्दस्मृरिविरचितः। स्तुतिस्रजं ते सुमनोमतामिमां
दधाति यः खे गुणगुम्फितां हृदि । स जीरिकापल्लिविभो विमुच्यते,
कुकर्मभिः पार्श्व सुखैकभाजनम् ॥३१॥ एतज्जातिभयामयादिविविधक्लेशैर्जगद्व्याकुलं तैरेव व्यथितैर्न शक्यमावतुं श्रीपार्श्व देवान्तः । त्वामेवेति बुधाः श्रयन्त्ययमपि स्तोतुं प्रवृत्तो जनः सर्वेष्टा लभतां त्वदेकशरणः श्रेयःश्रियः शाश्वतीः॥३२॥ जीरापल्लिविभूषणं जिनमिति श्रीपार्श्वनाथं मुदा शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जप्रमोदाऽद्वयो मोहदृषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥३३॥ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरमरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे श्रीजीरापल्ली
श्रीपार्श्वस्तोत्ररत्नं सप्तमम् ।
resten