________________
10
प्रभावकचरिते
तद्यथाब्रह्माण्डोदरकोटरं कियविदं तत्रापि मृद्गोलकं
पृथ्वीमण्डलसञ्ज्ञकं कुपतयस्तत्राप्यमी कोटिशः। तत्रैके गुरुगर्वगद्गदगिरो विश्राणयन्त्यर्थिनां
हा हा हन्त वयं तु वनकठिनास्तानेव याचेमहि ॥ ३०१॥ न ग्रहीष्ये ततो वित्तमसारकमशाश्वतम् । अभिमाने हृते जीवे पुरुषः शबसन्निभः ॥ ३०२॥ स 'आह कविरेकोऽसि धनपाल' धियांनिधे !। इति प्रतीतं मञ्चित्ते बुधो नास्ति तु निश्चितम् ॥३०॥ सविस्मयं ततः प्राह सिद्धसारस्वतः कविः । नास्तीति नोच्यते विद्वन् ! रत्नगर्भा वसुन्धरा ॥३०४॥ अणहिल्लपुरे श्रीमान् शान्तिसूरिः कृतिप्रभुः । जैनः ख्यातत्रिभुवने बुधस्तमवलोकय ॥ ३०५ ॥ स्नेहाद विसर्जितो राज्ञा कवीशेनाप्यसौ ततः। विजये तस्य भनाशो व्यमृशन्मानसान्तरा ॥ ३०६॥ अद्य पूर्व न केनापि स्खलितं वचनं मम । ईग्मम वचो हन्ता साक्षाद् ब्राह्मी नतु द्विजः ॥ ३०७ ।। प्रयाणं सुन्दरं तस्माद् बुधालोकमिषादतः । ध्यात्वेति गूर्जरं देशं प्रति प्रस्थानमातनोत् ॥ ३०८॥ प्रातः संसदि भूपालस्तमाह्वस्त विशारदम् । नास्तीति च परिज्ञाते धनपाल: कविर्जगौ ॥ ३०९ ॥ 'धर्मो जयति नाधर्म' इत्यलीकीकृतं वचः । इदं तु सत्यता नीतं 'धर्मस्य त्वरिता गतिः' ३१०॥ राजा प्राह यथा जीवं विनाङ्गेऽवयवान्विते । सत्यपि स्यान्न सामर्थ्यमुत्तरेऽपि परागतौ ॥ ३११ ॥ तद्वदेकं विना मित्रं धनपालं कृतिप्रभुम् । मूकेवः धर्मसंवादे सभा शोभा' विनाकृता ॥ ३१२॥ तस्मात्स एव मत्पावं शृङ्गारयतु सर्वदा । श्रुत्वेति धनपालोऽपि तुष्टः सन्मानतः प्रभोः ॥ ३१३ ॥
यथा स पत्तनं प्राप्तो जितः श्रीशान्तिसूरिभिः । बुध्वाऽऽस्ते मानितास्तेन तज्ज्ञेयं तच्चरित्रतः॥३१४॥ ६८. इतश्च शोभनो विद्वान् सर्वप्रन्थमहोदधिः । यमकान्विततीर्थेशस्तुतीश्च क्रेऽतिभक्तितः ॥ ३१५॥
तदेकध्यानतः श्राद्धग्रहे त्रिर्भिक्षया ययौ । पृष्टः श्राविकया किं त्वं त्रिरागा" हेतुरत्र कः॥३१६॥ स प्राह चित्तव्याक्षेपान्न जाने स्वगतागते । श्राविकाऽऽस्यात् परिज्ञाते गुरुभिः पृष्ट एष तत् ॥ ३१७ ॥ स प्राह न स्तुतिध्यानाजानेऽपश्यदथो" गुरुः । तत्काव्यान्यति हर्षेण प्राशंसत्तं चमत्कृतः ॥ ३१८ ॥ तदीयदृष्टिसङ्गेन तत्क्षणं शोभनो ज्वरात् । आससाद परं लोकं सङ्घस्याभाग्यतः कृती ॥ ३१९ ॥ तासां जिनस्तुतीनां च सिद्धसारस्वतः कविः । टीकां चकार सौदर्यस्नेहं चित्ते वहन् दृढम् ॥ ३२०॥ आयुरन्तं परिज्ञाय कोविदेशोऽन्यदा नृपम् । आपृच्छत परं लोकं साधितुं गुरुसंनिधौ ॥ ३२१ ॥ श्रीमन्महेन्द्रसूरीणां पादाम्भोजपुरस्सरम् । तनुं समलिखद् गेहिधर्म एव स्थितः सदा ॥ ३२२ ॥ उप्रेण तपसा शुद्धदेहः क्षिप्तान्तरद्विषन् । सम्यक्त्वं निरतीचारं पालयन्नालये गुरोः ॥ ३२३ ॥ तिष्ठन्निर्याप्यमानः स स्थविरैः श्रुतपारगैः । अन्ते देहं परित्यज्य श्रीसौधर्ममशिश्रयत्॥३२४॥-युग्मम् । गुरवोऽपि तदा तस्य दृष्ट्वा छेकत्वमद्भुतम् । लोकद्वयेऽपि सन्यासपूर्व तेऽपि दिवं ययौ ॥ ३२५ ॥
20
1 A स चाह । 2 Nरेकोऽपि । N धनपालः। 4 N धियांनिधिः। 5 N वादीशे'। 6N परागतैः। 7 N मूके च । 8N शोभाविना । 9 N स्तुति च । 10 N किं तु बिरागे। 11 N °दहो। 12 N न्यथ हर्षेण । 13 N°मानस्य स्थ° । 14 AD शिधियत् ।