________________
5
10
15
20
25
30
१४८
प्रभावकचरिते
यः कोऽपि पण्डितंमन्यः पृथिव्यां दर्शनेष्वपि । तर्क- लक्षण - साहित्योपनिषत्सु वदत्वसौ ॥ २५७ ॥ अथ श्रीभोजभूपालपुर: संगत्य पर्पदम् । तृणाय मन्यमानोऽसौ साहंकारां गिरं जगौ ॥ २५८ ॥ गलत्विदानं चिरकालसञ्चितो' मनीषिणामप्रति मल्लतामदः । उपस्थिता सेयमपूर्वरूपिणी तपोधनाकारधरा सरखती ॥ २५९ ॥ क्षितिप तव समक्षं बाहुरुकृतो मे वदतु वदतु वादी विद्यते यस्य शक्तिः । मयि वदति वितण्डावादजल्पप्रवीणे
जलधिवलयमध्ये नास्ति कश्चिद् विपश्चित् ॥ २६० ॥ हेमाद्रेर्बलवत्प्रमाणपटुता तार्क्ष्यस्य पक्षो दृढः शैलानां प्रतिवादिता दिविषदां पात्रावलम्बग्रहः । देशस्यैव सरखतीविलसितं किंवा बहु ब्रूमहे
सञ्चरति क्षितौ कविवुधख्यातिर्ग्रहाणां यदि ॥ २६९ ॥ वृहस्पतिस्तिष्ठतु मन्दबुद्धिः पुरंदरः किं कुरुते वराकः । मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ २६२ ॥ आचार्योऽहं कविरहमहं वादिराट् पण्डितोऽहं
दैवज्ञोऽहं भिषगहमहं मात्रिकस्तानिकोऽहम् ।
राजन्नस्यां जलधिपरिखामेखलाया मिलाया
492
माज्ञासिद्धः किमिह बहुना सिद्धसारखतोऽहम् ॥ २६३ ॥
इत्याडम्बरकाव्यानि तस्य श्रुत्वा महाधियः । अर्वाग्दृशोऽभवन् सर्वे भूपालो व्यमृशत् ततः ॥ २६४ ॥ पुंसा तेन विना पर्षच्छ्रन्येव प्रतिभासते । स कथं पुनरागन्ता य एवमपमानितः ॥ २६५ ॥ पुनः प्राप्यः कथंचित् स्यात् तदा प्रतिविधास्यते । एवं विचिन्त्य सर्वत्राप्रैषीद् विश्वास्यपूरुषान् ॥ २६६ ॥ शोधितः सर्वदेशेषु तेषामेके तमानुवन् । मरुमण्डलमध्यस्थे पुरे सत्यपुराभिधे ॥ २६७ ॥ तैश्च वैनयिकीभिः स वाणीभिस्तत्र सान्त्वितः । औदासीन्ये स्थितः प्राह नायास्ये तीर्थसेव्यहम् ॥ २६८ ॥ तैर्विज्ञप्ते यथावृत्ते भूपः पुनरचीकथत् । ततो (? वो) दासीनताभासं वचोऽसावखरप्रियम् ॥ २६९ ॥ श्रीमुञ्जस्य महीभर्तुः प्रतिपन्नसुतो भवान् । ज्येष्ठोऽहं तु कनिष्ठोऽस्मि तत्किं गण्यं लघोर्वचः ॥ २७० ॥ पुरा ज्यायान्महाराजस्त्वामुत्सङ्गोपवेशितम् । प्राहेति बिरुदं तेऽस्तु श्री कू च ल सरस्वती ॥ २७१ ॥ त्यक्ता वयं त्वया वृद्धा राज्यमाप्ताश्च भाग्यतः । जये पराजये वाप्यवन्तिदेशः 'स्थलं तव ।। २७२ ॥ ततो मत्प्रियहेतोस्त्वमा गच्छागच्छ साऽथवा । जित्वा धारां त्वयं कौल: परदेशी प्रयास्यति ॥ २७३ ॥ तत्ते रूपं विरूपं वा जानासि स्वयमेव तत् । अतः परं प्रवक्तुं न सांप्रतं नहि बुद्ध्यते ॥ २७४ ॥ प्राकृतोऽपि स्वयं ज्ञातं कुरुते नेतरत् पुनः । किं पुनस्त्वं महाविद्वांस्तद् वाथारुचितं कुरु ॥ २७५ ॥ धनपाल इति श्रुत्वा स्वभूमेः पक्षपाततः । तरसाऽगात् ततो ज्ञात्वा राजाभिमुखमागमत् ॥ २७६ ॥ दृष्टे च पादचारेण भूपः संगम्य धीनिधिम् । दृष्टमाश्लिष्य चावादीत् क्षमखाविनयं मम ॥ २७७ ॥ 1 N°सेवितो । 2 N त्यक्त्वा । 3AD खयं । 4 AD 'देशस्थलं । 5 B तद्व्यथा; N तद्यथा ।