________________
483
१७. महेन्द्रसूरिचरितम् ।
१३९
सुरिराह सुतद्वन्द्वाद् देह्येकं नन्दनं मम । सत्यप्रतिज्ञता चेत् ते न वा गच्छ गृहं निजम् ॥ ३२ ॥ इतिकर्तव्यतामूढो द्विजः कष्टेन सोऽवदत् । प्रदास्यामि ततो वेश्म निजं चिन्तातुरो ययौ ।। ३३ ॥ तत्रानास्तृतखट्वायां शिष्ये'ऽसौ निद्रया विना । दृष्टश्च धनपालेनागतेन नृपसौधतः ॥ ३४ ॥ विषादः किंनिमित्तोऽयं नन्दने मयि तिष्ठति । यथादिष्टकरे तत् त्वमाख्याहिं मम कारणम् ॥ ३५॥ ततः प्राह पिता वत्स! सत्पुत्रा हि भवादृशाः। पित्रादेशविधाने स्युरीदृग्गाढाभिसन्धयः ॥ ३६॥ 5 ऋणतः पितरं पाति नरकादुद्धरत्यथ । सद्गतिं च प्रदत्चे यो वेदे प्रोक्तः सुतः स च ॥ ३७॥ श्रुति-स्मृति-पुराणानामभ्यासस्य कुलस्य च । फलं तदेव युष्माकं यद् ऋणादस्मदुद्धृतिः ॥ ३८॥ ततः शृण्ववधानात् त्वं सन्ति जैना महर्षयः । महेन्द्रसरयो यैस्ते द्रव्यमीहक प्रदर्शितम् ॥ ३९ ॥ यथाभिरुचितं चैषामर्धदेयं प्रतिश्रुतम् । ततः पुत्रद्वयादेकं याचन्ते करवै हि किम् ॥ ४०॥ सङ्कटादमुतो वत्स! त्वयैव ह्यधुना वयम् । मोच्यामहे ततस्तेषां शिष्यो मत्कारणाद् भव ॥४१॥ 10 कोपगर्भ तदाह श्रीधनपालो धियां निधिः । तातोक्तं भवता यादृग् नेदृक् कोऽप्युचितं वदेत् ॥ ४२ ॥ सांकाश्यस्थानसंकाशा वयं वर्णेषु वर्णिताः । चतुर्वेदविदः साङ्गपारायणभृतः सदा ।। ४३ ॥ तथा श्रीमुञ्जराजस्य प्रतिपन्नसुतोऽभवत् (ऽभवम् !) ।श्रीभोजबालसौहार्दभूमिभूमिसुरो ह्यहम् ॥४४॥ तत्पूर्वजानिह स्वीयान् पुत्रो भूत्वा प्रपातये । श्वभ्रे पतितशूद्राणां दीक्षया ह्यवगीतया ॥४५॥ एकस्त्वमृणतो मोच्यः पात्याः सर्वेऽपि. पूर्वजाः । इमं कुव्यवहारं नाधास्ये सजननिन्दितम् ॥ ४६॥ 15 कार्येणानेन नो कार्य मम स्वरुचितं कुरु । तातमित्यक्मत्यामुं स तस्मादन्यतो ययौ ॥४७॥ अश्रुपूरप्लुताक्षोऽसौ निराशो गुरुसङ्कटे । यावदस्ति समायातस्तावदागात् सुतोऽपरः॥४८॥ पृष्टस्तेनापि दैन्येऽत्र निमित्तं स तदाऽवदत् । धनपालेन कुत्रापि कार्य प्रतिहता वयम् ॥४९॥ भवान् बालस्ततः किंनु तत्र प्रतिविधास्यते । गच्छ खकर्मभोक्तारो भविष्यामः सलक्षणैः ॥ ५० ॥ निराशं वाक्यमाकर्ण्य तत्पितुः शोभनोऽवदत् । मा तात! विह्वलो भूया मयि पुत्रे सति ध्रुवम् ॥५१॥ 20 धनपालो राजपूज्यः कुटुम्बभरणक्षमः । निश्चितस्तत्प्रसादेन भवतादिष्टमाचरे ॥५२॥ वेद-स्मृति-श्रुतिस्तोमपारगः पण्डितोऽग्रजः । कृत्याकृत्येषु निष्णातः स वेवेक्त यथारुचि ॥ ५३ ॥ अहं तु सरलो बाल्यादेतदेव विचारये । पित्रादेशविधेरन्यो न धर्मस्तनुजन्मनाम् ॥ ५४॥ अत्र कृत्यमकृत्यं वा नैवाहं गणयाम्यतः । कूपे क्षिप निषादानां मामर्पय यथारुचि ॥ ५५ ॥ श्रुत्वेति सर्वदेवश्च तं बाढं परिषस्वजे । मामृणान्मोचयित्वा त्वं समुद्धर महामते ! ॥५६॥ ततः प्रागुक्तकार्य तच्छावितोऽसौ सुतोत्तमः । अतिहर्षात् ततः प्राह कार्यमेतत् प्रियं प्रियम् ॥ ५७॥ श्रीजैना मुनयः सत्त्वनिधयस्तपसोज्वलाः । तत्संनिधाववस्थानं सद्भाग्यैरेव लभ्यते ॥ ५८ ॥ जीवानुकम्पया धर्मः स च तत्रैव तिष्ठति । चिह्नं यत्सत्यधर्मस्य ज्ञानमीहक् प्रतीतिदम् ॥ ५९ ॥ कः स्थास्यति गृहावासे विषये 'चिकिलाकुले । इदं कार्यमिदं कार्यमिति चिन्तार्तिजर्जरे ॥६॥ बिभेत्युभयथा बन्धुर्वल्लभाया धनश्रियः । असन्तुष्टधियस्तिष्ठत्वपि भोग्येषु वस्तुपु ॥ ६१॥
30 ममापीदृग्गतिः कन्यासम्बन्धे भाविनी ध्रुवम् । तत्तात! मत्प्रिये कार्ये शङ्कसे किं निषेधतः ॥ ६२ ।। तदुत्तिष्ठ कुरु स्नानं देवार्चनमथ क्रियाम् । वैश्वदेवादिकां कृत्वा निर्वृतः कुरु भोजनम् ॥ ६३ ॥ ततो मां तत्र नीत्वा च तेषामङ्के विनिक्षिप । पवित्रये निजं जन्म यथा तत्पदसेवया ॥६४ ॥
1N सुप्तो। 20 याति । 3 N वः । 4 N नादास्ये । 5 D कार्य | 6:N सत्य। 7 'चिकिल-पंक' इति D टिप्पणी ।