________________
401
८. वृद्धबादिसूरिचरितम् ।
राजाह शत्रुमीत्यन्धतमसेऽहं निपेतिवान् । उद्दधे भास्वता नाथ भवता भवतारक' ! ॥ ८३ ॥ ततो दिवाकर इति ख्याताख्या भवतु प्रभोः । ततः प्रभृति गीतः श्रीसिद्धिसेनदिवाकरः ॥ ८४ ॥ ६५. तस्य राज्ञो दृढं मान्यः सुखासनगजादिषु । बलादारोपितो भक्त्या गच्छति क्षितिपालयम् ॥ ८५ ॥ इति ज्ञात्वा गुरुर्वृद्धवादी सूरिर्जनश्रुतेः । शिष्यस्य राजसत्कारदर्पभ्रान्तमतिस्थितेः ॥ ८६ ॥ शिक्षणेन क्षणेनैवापासितुं दुर्ग्रहाग्रहम् । समाजगाम कर्मारपुरे रूपापलापतः ॥ ८७ ॥ युग्मम् ॥ ततः सुखासनासीनमपश्यत् तं प्रभुस्तदा । राजानमिव राजाध्वान्तरे बहुजनावृतम् ॥ ८८ ॥ प्राह च प्राप्तरूप ! त्वं संदेहं मे निवर्तय । आयातस्य तव ख्यातिश्रुतेर्दूरदिगन्तरात् ॥ ८९ ॥ पृच्छेति सिद्धसेनेन सूरिणोक्ते जगाद सः । तारखरं समीपस्थविदुषां विस्मयावहम् ॥ ९० ॥
तद्यथा
अलीय फुल म तोडहु मन' आरामा' म मोडछु ।
'मण कुसुमहिं' अचि निरञ्जणु हिण्डह काई वणेण वणु ॥ ९१ ॥ अज्ञातेऽत्र विमृश्यापि कटुत्तरमसौ ददौ । अन्यत् पृच्छेति स प्राहैतदेव हि विचारय ॥ ९२ ॥ अनादरादसम्बद्धं यत्किंचित् तेन चाकथि । अमानितेऽत्र तर्हि त्वं कथयेति जगाद सः ॥ ९३ ॥ वृद्धवादिप्रभुः प्राह कर्णयावहितो भवः । अस्य तत्त्वं यथामार्गभ्रष्टोऽपि लभसे पुनः ॥ ९४ ॥
५७
5
10
तथाहि - 'अणु' अल्पमायूरूपं पुष्पं यस्याः साऽणुपुष्पिका' - मानुष तनुः, तस्याः पुष्पाण्यायुः खण्डानि तानि 15 मा त्रोटयत, राजपूजागर्वाद्यं कुटीभिः । 'आरामान्' आत्मसत्कान् यमनियमादीन् सन्तापापहारकान् मा मोटयत-भंजयते । 'मनः कुसुमैः' क्षमामार्दवार्जवसन्तोषादिभिरर्चय, निरञ्जनम् अञ्जनान्यहंकारस्थानानि जातिलाभादीनि निर्गतानि यस्य स निरञ्जन:- सिद्धिपदप्राप्तस्तं ध्यायतु । 'हिण्डत' भ्रमत 'कथं वनेन वनं' मोहादित रुगहने नारण्यमिव संसाररूपं गद्दनमित्येकोऽर्थः ॥ १ ॥
अथवा - अणुर्नामाल्पधान्यं तस्य पुष्पाण्यल्पविषयत्वान्मानवतनोः, सा अणुपुष्पी, तस्याः पुष्पाणि महा- 20 व्रतानि शीलाङ्गानि च तानि मा त्रोटयत मा विनाशयत । 'मन आरामं मोटयत' चित्तविकल्पजालं संहरत । तथा 'निरञ्जनं' देवं मुक्तिपदप्राप्तं, 'मन' इत्यनेन द्वौ निषेधकशब्दौ मा च नश्च ततो मा कुसुमैरचय निरञ्जनं वीतरागम् । गार्हस्थ्योचितदेवपूजादौ षड्जीवनिकायविराधके मोघमं कुरु, सावद्यत्वाद् । 'वनेन' शब्देन कीय हेतुभूतया, 'वनं' चेतनाशून्यत्वादरण्यमिव भ्रमहेतुतया मिथ्यात्वशास्त्रजातं 'कथं भ्रमसि' अवगाहसे लक्षणया, तस्मान्मिथ्यावादं परिहृत्य सत्ये तीर्थकृदादिष्टे आदरमाधेहि । इति द्वितीयोऽर्थः ॥ २ ॥
1 A °भीत्यंधः तमसे; CN °तमसो । 2 A °तारकः । 3 A अणुदुह्री; B अणहुल्लीय; C अणहुल्ली। 4 नास्ति A B 5 B आराम । 6 A मणु। 7 B कुसुमेद्दं । 8 B प्राह तदेव । 9 A त्रोटय 10 A नास्ति । 11 A सिद्ध° 12 N साल्पपुष्पी A सा च अणु । 13 'च' नास्ति B 14 N स्याद्वाद° । 15 N सिद्धान्तसूत्रं
प्र० ८
25
अथवा - अणरणेति धातोरणः शब्दः स एव पुष्पमभिगम्यत्वाद्यस्याः साऽणपुष्पा' कीर्तिः । तस्याः पुष्पाणि सद्बोधैवचांसि तानि मा त्रोटयत मा संहरत । तथा 'मनस आरा' वेधकरूपत्वात् अध्यात्मोपदेशरूपास्तान् मा त्रोटयत - कुव्याख्याभिर्मा विनाशयत । मनो निरञ्जनं रागादिलेपरहितं कुसुमैरिव कुसुमैः सुरभिशीतलैः सहरूपदेशैरचय पूजितं श्लाध्यं कुरु । तथा वनस्योपचारात् संसारारण्यस्य, तस्येनः स्वामी परमसुखित्वात् तीर्थकृत्, तस्य वनं शब्दसिद्धान्तस्तत्र कथं हिण्डत भ्रान्तिमादधत । यतस्तदेव सत्यं । तत्रैव भावना रतिः 30 कार्या । इति तृतीयोऽर्थः ॥ ३ ॥
इत्यादयो ह्यनेकार्था व्याख्याता वृद्धवादिना । मतिप्रतिविधानं तु वयं विद्मस्तु किं जडाः ।। ९५ ।। इति तज्जल्पपर्जन्यगर्जिवर्षणडम्बरैः । बोधेनाङ्कुरिता सिद्धसेनमानसमेदिनी ।। ९६ ।।
fee शक्तिर्हि नान्यस्य मद्धर्माचार्यमन्तरा । स ध्यात्वेति समुत्तीर्य तस्यांही प्राणमद् गुरोः ॥ ९७ ॥