________________
सर्ग १७ ; श्लो० १९२-१९३]
हीरसौभाग्यम्
८७३
कस्मात् । प्रमोदात् हर्षात् । का इव । शेषा इव । यथा त्रिभुवनाधिपतेः त्रैलोक्यनायक स्य परमेश्वरस्य शेषाः 'सेख' इति प्रसिद्धाः गृह्यन्ते । पुनस्ते तन्नगराधिपयवना अकब्बरपातिसारेताः सहकारिकाः प्रास्थापयन प्रेषयामासुः । किंभूताः। अद्वैत न विद्यते द्वैत द्वितयं यत्र तदद्वैतमसाधारण मनस्यसामान्य विस्मयकाश्चर्य चित्रं कुर्वन्तीति ता अद्वैतविस्मयकरीः । उत्प्रेक्ष्यते-उपदा ढौकनिका इव । अथ वोपमानम् । काइव | उपदा इव प्राभृतानीव । 'भेट' इति प्रसिद्धाः ॥ इति माकन्दस्य फलन तत्फलग्रहण साहे: प्रेषण च ॥
શ્લોકાર્થ
જૈન અને જૈનેતર સર્વલક સાથે આવીને, એ વૃક્ષનાં ફળો જાણે પરમાત્માની શેષ ન હોય, તેમ તે આ પ્રફળને હર્ષપૂર્વક ગ્રહણ કરતા હતા; અને તે આમ્રફળે જાણે કેઈ અદ્વિતીય આશ્ચર્યકારી ભેટ ન હોય તેમ અકબરબાદશાહને પણ મેકલ્યાં છે ૧૯૧
लाडकीति प्रिया यस्य मुर्ता श्रीरिव वेश्मनि । स्वर्गवी किमुत स्वर्गाद्भूमण्डलमुपागता ॥ १९२ ॥
स द्वीपबन्दिरश्रेष्ठी मेघनामा परीक्षकः । आर्षभिवृषभस्येव सूरेः स्तूपमकारयत् ॥ १९३॥
मेघनामा परीक्षकः मेघपारिखनामा सरेहीरविजयव्रतीन्द्रस्य स्तूपमकारयत्कारयामास । काव । आर्षभिरिव । यथा ऋषभस्यापत्य नन्दनः आर्षभिर्भरतचक्री वषम्य । देवस्य अष्टापदपर्वते ऋषभदेवदेहसंस्कारस्थाने स्तूप कारितवान्, तथा वृषभस्वामिप्रतिमां च तथा भ्रातणां नवनवतिप्रतिमां च आत्मप्रतिमां च स्तूपशत च मा कशिदाक्रमण करिष्यतीति तत्रैक भगवतः स्तूप शेषाण्येकोनशभ्रातृणाम् - इति हारिभयां मलयगिर्या चावश्यवृत्तौ । किंभूतः । द्वोपबन्दिरस्य । यत्र द्वीपान्तरेभ्यो यानपात्राः समायान्ति तेषु यान्ति च तद्वन्दिरमित्यच्यते । द्वीपनानो नगरस्य श्रेष्ठी नगरमध्ये मख्यपटभाक। म कः । यस्य लाडकी नानी प्रिया पत्नी वर्तते । उत्प्रेक्ष्यते-वेश्मनि मेघपरीक्षकसौधे मूर्ता मूर्तिमती लाडकीशरीरिणी श्रीलक्ष्मीरिव । उताथवा असौ लाडकीरूपा स्वर्गादेवलोकादभू. मण्डले पृथिवीपीठे उपागता समायाता स्वर्गवी कामधेनुरिव ॥ युग्नम् ॥
हि० सौ० ११०