________________
सर्ग १५ श्लो० २-३]
हीरसौभाग्यम्
६२१
अथ दर्शनाकाङ्कानन्तर व्रतिपतिहीरविजयसूरिः विमलगिरीन्द्र प्रति श्रीशत्रुजयशिलोच्चयसमुख प्रतस्थे प्रतिष्ठते स्म प्रचलति स्म । किंभूतः । भव्यलोकैः विमलाद्रियात्राभिलाषुकभविकजनैः परीतः परिवृतः परिवारितो बा । भव्यलोकैः किं कुर्वद्भिः। विधिवदागमोक्तप्रकारेण ब्रह्म शील मुख्य प्रकृष्टमादिर्वा येषु तादृशान् षट्संख्याकान् । 'एका. हारी भूमिसंस्तारकारी पद्धयां चारी शुद्धसम्यक्त्वधारी । यात्राकाले सर्वसञ्चित्तहारी पुण्यात्मा स्यात्सत्कियो ब्रह्मचारी ॥' इति । विधीनाचारविशेषान् उपचरद्भिः सेवमानः कुर्वद्भिर्वा । उत्प्रेक्ष्यते-उच्चैरतिशयेन । मूलादित्यर्थः । अन्तरित्यव्ययम् । मध्यस्थायुकानामन्तरङ्गाणामित्यर्थः । वैरिणां शत्रुभूतानां परमप्रत्यर्थिनामनर्थकारित्वात् । क्रोधमानमायालोभरागद्वेषरूपाणां षवर्ग षण्णां वर्ग देहिनां महादुःख दायित्वात्सर्वेषामपि सादृश्यम् । 'वर्गस्तु सदृशाम्' इति हैमीवचनात् । विदलयितुमिव ।
ભલકા કોધ, માન, માયા, લેજ, રાગ, દ્વેષરૂપ અંતરંગ શત્રુઓને નાશ કરવા માટે એકલઆહારી, ભૂમિસંથારી, પાદચારી, શુદ્ધસમ્યક્ત્વધારી સચિત્તપરિહારી અને બ્રહ્મચારી આ છ પ્રકારની વિધિસહિત ભાવિકેથી પરિવરેલા આચાર્યદેવે યાત્રાર્થે શ્રી વિમલાચલ : તરફ પ્રયાણ કર્યું. ૨ છે
नगरनिगमदुर्गग्रामसारामसीमा
गहनगुरुगिरीन्द्रांल्लकमानः क्रमेण । किममृतकमलायाः केलिशैलं क्षमायां श्रमणधरणिशक्रः सिद्धिशैलं ददर्श ॥३॥
श्रमणानां तपस्विनां मध्ये धरणिशको राजा । धरणिशब्दो दी? इस्वोऽप्यस्ति । पूर्व लिखितोऽस्ति ग्रन्थोक्तेन । सरिराजः सिद्धिशैल शत्रुजयगिरिं ददर्श पश्यति स्म । उत्प्रेक्ष्यते-क्षमायां भूमौ अमृत मुक्तिः सैव कमला लक्ष्मीः तस्याः केलिशैल क्रीडाकरणार्थ पर्वतमिव । अत्र सिद्धिश्रीः स्वैरं रमते । सरिः किं कुर्वाणः । क्रमेण विहार. परीपाटया नगराणि महत्पुराणि देशेषु मुख्यपुराणि राजधानीरूपाणि वा, निगमा नगरस्थानविशेषा बृहवाणिस्थानकानि वा, दुर्गा दुःखेन गम्यन्ते अध्यास्यन्ते इति दुर्गाः कोट्टाः' विषमस्थानानि वा, ग्रामा अल्पचातुर्याणि लघुपुराणि संनिवेशा वा, सहारामैः कृत्रिम . वनरुधनैरुपवनैर्वा वर्तन्ते यास्तादृश्यः सीमा पुरबाह्यपरिसरभूमयो नगर्यो विभागकृद्भवो घा, गहनानि शैलसमीपविषमप्रदेशागतवनानि संकीर्णानेकपादपपटलशाखाविशेषा प्रविष्टार्क. किरणदुःसंचारकान्तारा वा, गुरवोऽतितुङ्गशृङ्गा गिरीन्द्राः महाशलास्ताल्लङ्घमानः अतिक्रामन् ॥