________________
४६०
हीरसौभाग्यम्
[सर्ग १३ श्लो० २२५-२२७
શ્લોકાથ
તે હે સૂરિદેવ, આપ તેઓને લમીના સંકેતસ્થાન રૂપ મંગલ આશીર્વાદ આપે, જેથી જેમ કુલ્યા (નીક) વડે વૃક્ષ વૃદ્ધિને પામે છે, તેમ આ ત્રણે પુત્રે સર્વ પ્રકારની વૃદ્ધિને પામે.” ૨૨૫ .
इति नृपमणिवाणी कर्णपेयां प्रणीय
व्यतरदयममीभ्यो धर्मलाभाशिष सः। अपि निजकरक्लुप्ताशेषराज्या इवैते
___ऽसमप्रमदसुधाब्धौ राजहंसीबभूवुः ॥ २२६ ॥
. अयं मुनीन्द्रः सरिरमीभ्यः पातिसाहिपुत्रेभ्यः धर्मलाभ इति नानीमाशिष व्यतरददाति स्म । किं कृत्वा । इति पूर्वोक्तप्रकारेण नृपमणेः समस्तराजसुररत्नस्य साहेर्वाणी कर्णयोः सादर श्रोतु योग्यां प्रणीय कृत्वा । श्रुत्वेत्यर्थः । अपि पुनरेते साहिपुत्रा अपि निजकरे स्वपाणौ क्लुप्त कृतमागतमशेष समग्रं राज्यं मेदिनीमण्डलाधिपत्यं यैस्तादृशा इव । असमोऽसाधारणः यः प्रमोदः । अत्र प्रमदशब्दगतो रेलो न यतिभङ्गाय संभवेत् । तथा 'बहलभ्रामरमेचकतामसे' इत्यस्मिन्काव्ये हियादयोऽपि सन्तीति काव्यकल्पलतावृत्तरत्नाकरवृत्त्यादौ कथनात् स एव सुधाब्धिः क्षीरसमुद्रः तत्र राजहंसीभूताः सितच्छदा जाताः ॥ इति साहिजातानामाशीर्वाददानम् ॥
શ્લોકાથ
રાજાની આવી કર્ણપ્રિય વાણી સાંભળીને આચાર્યદેવ તેઓને “ધર્મલાભ” રૂપ આશીર્વાદ આપે. તે ત્રણે શાહજાદા પિતાના હાથમાં જાણે સમસ્ત દેશનું સામ્રાજ્ય પ્રાપ્ત થયું ન હોય તેમ અત્યંત આનંદરૂપી ક્ષીરસમુદ્રમાં રાજહંસરૂપે બની ગયા! ૨૨૬
यं प्राप्त शिवाहसाधुमघवा सौभाग्यदेवी पुनः
श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामादिमम्। तबाहीक्रमसेविदेवविमलेनानन्दतो निमिते
वृत्ते हीरगुरोत्रयोदशमितः सर्गों वभूवानसौ ॥ २२७ ॥