________________
सर्ग १३ श्लो ० २१८-२१९ ] हीरसौभाग्यम्
४५३
हे राजन् पातिसाहे, जगत्त्रयीप्रसिद्ध पापापायव्यपायक्षेत्र विमल इति नामाचलः पर्वतः विमलाचलोऽधुना शत्रुजय इति नाम तीर्थ विजयते सर्वोत्कृष्टत्वेन वर्तते । किंभूतः । सौराष्टाणां यात्रागतशत्रजयोजयन्तपर्वतरूपतीर्थद्वयविलोकनात्प्रमुदितभरतचक्रवर्तिप्रदत्तदेवदेशाभिधानानां चुडामणिः शिखामणिसदृशः इव । तत्किम् । यत्र विमलाचले पतिवरा स्वयंवरा कन्येव कैवल्यलक्ष्मीः मुक्तिश्रीः स्वयमात्मनैव वृणुते वरयति । पुनर्यत्र राजादनी प्रियालद्रुमः । 'नवनवतिपूर्ववारान्यस्मिन्समवासरयुगादिजिनः । राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् ॥' इति पूर्वाचार्यकृतशत्रुजयस्तुतौ । अब्दालीव कादम्बिनीव संघस्य श्राद्धवर्गस्याखण्डल इन्द्रः संघपतिस्तस्य मूर्ध्नि मस्तकोपरि पयो दुग्ध पानीय च वर्षति । पुनर्यस्मिन्विमलाचले मार्तण्डकुण्डाम्भसा सूर्यकुण्डजलेन पङ्कः कर्दम इव वृजिनं पापं प्रयाति दूरे गच्छति ॥
શ્લોકાઈ
“હે રાજન, સૌરાષ્ટ્ર દેશમાં ત્રણે લોકમાં પ્રસિદ્ધ એવું વિમલાચલ' નામનું તીર્થમાં જયવંતુ વર્તે છે. કે જે તીર્થમાં મુક્તિરૂપી કન્યા સ્વયંવરની જેમ આવીને ભવિઓને સ્વયં વરે છે. વળી ત્યાં રાયણના વૃક્ષની નીચે નવાણું પૂર્વવાર યુગાદિદેવ પધાર્યા હતા. તે રાયણ વૃક્ષનું દૂધ મધની ધારાની જેમ સંઘપતિનાં મસ્તક ઉપર વરસે છે. તેમજ શત્રજય ઉપર રહેલા સૂર્યકુંડનું જલ ભવિછના પાપમલને ६२ ४रे छे." ॥ २८॥
आस्तेऽभ्र लिहरैवतादिरपरः स्वस्याः पवित्रीकृते
जाने सानुनिभेन सप्तजगतीयं सेवतेऽनिशम् । शंभोश्चन्द्रकलेव मूर्धनि पुन ति स्म यस्याम्बिका
यस्मिन्नेमिजिनस्तथा गजपदं कुण्डं पुनीते जगत् ॥ २१९ ॥
है नृप, अपरोऽन्यः अभ्रंलिहः अम्बरंचुम्बी रैवत इति नामा अद्रिः पर्वत आस्ते अहमेव जाने अवगच्छामि । सप्तजगती सप्तसंख्यया युक्ता जगती । सप्त भुवनानीत्यर्थः । 'त्रिजगतीं पुनती कविसेविता' इति ऋषभनम्रस्तवे । यथा त्रिजगतो स्वस्या आत्मनः पवित्रीकृते