________________
सर्ग १३ श्लो० २११-२१२]
हीरसौभाग्यम्
४४९
विरागे नानुरागे न तोषे दोषे न भूविभो । मुक्तौ न सुभ्रुवां भुक्तौ चेतश्चिन्वन्त्यमी क्वचित् ॥ २११ ॥
हे भूविभो, अमी सूरयः विरागे वैराग्ये सर्वसंसारासारतापरिज्ञानादनित्यभावनायां चेतः स्वं मनश्चिन्वन्ति पुष्ट कुर्वन्ति, पर नानुरागे क्वचित्कुत्राप्यवस्थायां न पुनः पुत्रकलत्रमित्रद्रनिणाद्यनुरक्तौ आजन्म यावद्वैराग्यरङ्गतरङ्गितमानसा एव वर्तन्ते । तोषे निर्लोभत्तालक्षणे संतोषे । 'संनिधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किंकरायन्ते संतोषो यस्य भूषणम् ॥' इत्युक्तेः स्वास्थ्ये चेतश्चिन्वन्ति, न पुनः क्वचित्कस्मिन्नपि दोषे अपगुणे रागद्वेषकषायादौ च । पुनर्मुक्तो कदा अनादिसंसारपरम्परालतां मूलादुच्छिद्य मोक्षे यास्याम इत्याशये, न पुनः क्वचिद्देवनरादिकानां कलत्राणां भुक्तौ भोगे विलासे राज्यादिसुखलीलाभुक्तौ वा । 'जिनेति जिनभद्रेति वा स्मरन् । नरो न लुप्यते पापे भुक्तिं मुक्तिं च विन्दति ॥' इति जिनकवचनस्तोत्रे । चेतश्चिन्वन्ति ॥
શ્લેકાર્થ
હે નાથ, આ આચાર્યનું મન વિરાગમાં પુષ્ટ છે, પરંતુ અનુરાગમાં નિર્બલ છે, વળી સંતેષમાં પુષ્ટ અને દેશોમાં નિર્બલ છે, તેમ જ મુકિતમાં રમે છે. પરંતુ શ્રી આદિના ભાગમાં રમતું નથી-” ! ૨૧૧ છે
भूलोके भोगिलोके च स्वर्लोके स न कश्चन । आवाभ्यामुपमीयेत योगिनां मौलिनामुना ॥ २१२ ॥
हे प्रभो, भूलोके निखिलविपुलामण्डले च पुनभौगिनां भुजंगमानां लोके भुवने पाताले च पुनः स्वलॊके देवमन्दिरे कश्चन कोऽपि स वशीन्द्रो नास्ति यो योगीन्द्रः योगिनामष्टाङ्गयोगभाजां मनोवाक्काययोगवतां वा मध्ये मौलिना मुकुटेन शेखरणामुना सममाषाभ्यामुपमीयेत उपमानीक्रियेत ॥
हि० सौ० ५७