________________
सर्ग १३ श्लो० २०८-२०९]
हीरसौभाग्यम्
४४७
शेरते स्वपन्ति निद्रासुखमनुभवन्ति । पर्यड्के किंभूते । निजभुजा स्वबाहुरिव गण्डोपधान गल्लमसूरकं तेनाकिते कलिते । किंभूते वेश्मनि । तारास्तारका उपलक्षणात् ग्रहनक्षत्राणि एव मौक्तिकानि यत्र तादृशं नभ आकाशमेव चन्द्रोदय उल्लोचस्तेन भ्राजते इत्येवंशीले । पुनः किंभूते । कान्तिज्योतिरेव तैलं स्नेहस्तेन भृतः पूरितः य औषधीप्रियतमः चन्द्रः । 'नवोदय नाथमिवौषधीनाम्' इति रघौ । स एव स्नेहप्रियः दीपस्तेनेात्प्राबल्येन भासते दीप्यते सहोद्योतेन शालते इत्येवंशीले ॥
લોકાર્થ
હે દેવ, ગ્રહ, નક્ષત્ર અને તારાઓ રૂપી જેમાં મૌકિતકે છે, તેવા આકાશરૂપી ચંદરવાથી શોભતું તેમ જ તિરૂપી તેલથી પરિપૂર્ણ એવા ચંદ્રરૂપી દીપક વડે જાજવલ્યમાન જગતરૂપી ભુવનમાં પિતાની ભુજારૂપી શિકાવાળા પૃથ્વીરૂપી પલંગમાં, ઉપશમ લહમીરૂપી સ્ત્રીને આલિંગન કરીને, રાજા સમાન આ આચાર્ય સુખપૂર્વક નિર્ભયતાથી નિદ્રાને અનુભવ કરે છે.” મે ૨૦૮
बाह्याबाह्यजिघांसुधातुकतपस्तेजोभिरेभिर्भुवो
____ जम्भारे गगनार्धगोगणधरैधिक्कारतां लम्भितः । शत्रून्प्रत्यपकर्तुमम्बुधिशय संशीलतीवानिशं
यायादेष कृतः सरस्वति न चेदेणाङ्कयोषामुखे ॥ २०९ ॥
हे भुवो जम्भारे क्षोणीन्द्र, एभिर्गणधीरविजयसरिभिर्बाह्या बहिर्भवाः कुदृक्प्रमुखाः अबामा अन्तरङ्गाः रागद्वेषकषादयो जिघांसबो द्वेषिणस्तेषां घातुकानि हिंसनशीलानि यानि षष्ठाष्टमादिविकृष्टतपांसि तेषां तेजांसि प्रतापास्तैः साधनैः कृत्वा । तेजःशब्देन प्रतापोऽप्युच्यते ॥ यथा नैषधे–'एतस्योत्तरमद्यः नः समजनि उत्तेजसां लङ्घने' इति । 'तव प्रतापानामतिक्रमणे' इति तदवृत्तिः । धिक्कारतां पराभवभाव लम्भितः प्रापितः सन् गगनाध्वगः सूर्यः । उत्प्रेक्ष्यते-शत्रून सूरिप्रतापरूपानिजविजयित्वात् स्ववैरिणः प्रत्यपकतु पराभवं विधातुमम्बुधिशयं समुद्रशे(शयि)तारं विष्णुमनिशं निरन्तरं शीलतीव सेवते इव । यः शत्रूभूय परं पराभवति स तेन दैत्य एवोच्यते । ततो विष्णोदै त्यनिषदनत्वेन तत्सेवन युक्तमेव । एवं चेन्न तहिं एष भानुरेणाङ्कस्य चन्द्रस्य योषा कान्ता रात्रिस्तस्या मुखे प्रारम्भे संध्यासमये । 'रजनी वसतिश्यामा वासतेयी तमस्विनी । उषा दोषेन्दुकान्ता' इति, तथा 'प्रदोषो यामिनीमुखम्' इति हैम्याम । सरस्वति समुद्रे कुतः कारणाचायाद्गच्छेत् । तत्र गमनकारणं तु दैत्यारिसेबनैव ॥