________________
सर्ग १३ श्लो १४०-१४१]
हर सौभाग्यम्
ततस्तत्सदसज्ज्ञानानन्तरं स खुदाभिधः परमेश्वरः विमृश्य अनेनैवंविध' कर्म विनिर्मितम् अत एतस्य ईदृशमेव फलं प्रदत्त' विलोक्यते इति स्वमानसे विचार्य । यदुक्तम् —'यद्यावद्यादृशं येन कृतं कर्म शुभाशुभम् । तत्तावत्तादृशं तस्य फलमीशः प्रयच्छति ॥' इति चम्पूकथायाम् । एतद्वचनात् तस्य यावद्यवनजनस्य श्रेयोंहसोः पुण्यपापयोरनुरूपमुचितं फलं सुखदुःखानुभवनरूपं विश्राणयिता स्वस्तनीप्रयोगः प्रदास्यति । केव । उर्वरेव । यथा सर्वसस्या यत्रोप्तमात्राणि सर्वाण्यपि धान्यानि सम्यक् निष्पद्यन्ते सोव 'रेत्यभिधीयते । तादृशी धरित्री । मसूरा मालवमण्डले बहुप्रसिद्धाः, गोधूमाः सर्वत्रापि ख्याताः, तथा यवा अर्बुदपरिसरे अतिशयेन प्रथिताः प्रायशस्तु सर्वत्रापि विश्रुताः, एते त्रयोऽप्यादौ येषां तेषामपरेषामपि धान्यानां बीजं योनि निबन्धस्य योग्यं सस्योत्करवि विश्राणयति प्रदत्ते । सर्वसस्यायां भूमौ यादृशं धान्यमुप्यते तादृशमेव लूयते इत्यर्थः ॥
શ્લેાકા
४०७
જેમ સદ્યસસ્યા ( વપન કરવા માત્રથી ફળ આપનારી પૃથ્વી મસૂર, ઘઉં અને જવ આદિનાં ખીજને અનુરૂપ ફળ આપે, તેમ ખુદા તેનાં પુણ્ય-પાપના વિચાર કરીને તેને અનુરૂપ સુખદુઃખાદિ ફળ આપે છે, (કહ્યુ` છે કે : ‘જેણે જેવા પ્રકારનું ક્રમ કર્યુ” હાય તેને તેવા પ્રકારનું ફળ આપે છે’) ॥ ૧૪૦ ॥
नावोऽम्बुधेः कूलमिवानुकूलवातेन भिस्तिं गमिता अनेन । भोक्ष्यन्ति भोग्याद्भुतभोगभङ्गिताः केऽपि ततः सुखानि ॥ १४१ ॥
ततः पुण्यफलदानादनेन खुद संज्ञेन परमेश्वरेण केsपि पुण्यभाजिनेा यवना भिस्ति स्वर्गे गमिताः प्रापिताः सन्तो भोग्याः भोक्तुं येोग्याः अथ वा भुज्यन्ते निरन्तरसात यैस्तानि भोग्यानि तैः पुण्यपरिकैः कृत्वा अद्भुताभिराश्चर्यकारिणीभिर्भोगानां विविधसुखानां नानाप्रकारहृदयंगमाभ्यवहाराणामाभरणव सनागणितमणिमैौतिकस्वर्णादिधनानामथवा इह लोके राज्यादिलक्ष्मीगां भङ्गीभिः रचनाभिः तरङ्गिताः प्रमोदमेदस्वितां गताः सन्तः । 'भोगस्तु राज्ये वेश्याभृतो सुवे । धनेऽहिकायक गये। पातालाभ्यवहारयेः ||' इत्यनेकार्थः । सुखानि शर्माणि भोक्ष्यन्ति । का इव । नाव ईव । यथा यानपात्राणि तात्स्थ्यात्तव्यपदेश