SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सर्ग १३ श्लो ० ९५-९६ ] हीरसौभाग्यम् ३८१ पचेलिमान्प्राक्तनकर्मरोगारसायनं दिव्यमिवापनेतुम् । तत्रापि शक्रः शमिनां सदस्यानुद्दिश्य धर्म कथयांबभूव ॥ ९५ ॥ तत्रापि जगन्मल्लभूभृद्भबनेऽपि शमिनामुपशमवतां साधूनां शक्रः पुरंदरस्तन्मध्ये वा वासवः । सर्वोत्कृष्टशान्तरसवत्त्वात् । सरिः सदस्यान सभ्यानुद्दिश्य अङ्गीकृत्य । अथ वा सभासदामायतिहितहेतवे धर्म भगवद्धाषितमुत्कृष्टमङ्गलमशेषसंपदुपादानं धर्मदेशनां कथयांबभूव दिशति स्म । उत्प्रेक्ष्यते-पचेलिमान परिपाकमुदयावलिकां प्रपेदानान प्राक्तनान् पूर्वजन्म निर्मितान् कर्माणि ज्ञानावरणीयादिकान्यष्टौ तान्येव रोगान् दान्नाशयितु अपनेतु दिव्य देवसंबन्धि रसायनमौषधविशेष इव पापगमहामयान सुधारसमिव । શ્લેકાથ મુનીન્દ્ર શ્રી હીરવિજયસૂરિજીએ તે જગમાલ રાજાના ભવનમાં સભાને ઉદ્દેશીને ધર્મદેશના આપી. તે દેશના જાણે પરિપક્વ બનેલા પૂર્વકૃત કમ્મરૂપી રેગોને નાશ કરવા માટે દિવ્ય રસાયણ-ઔષધ ન હોય તેવી અદ્દભુત હતી ! છે ૯૬ निपीयमाना श्रवणाञ्जलिभ्यां तद्देशनासारसुधावुधानाम् । दन्तांशुमिश्रस्मितमूतिरन्तरमान्त्युपेयाय बहिः किमेषा ॥ ९६ ॥ श्रवणौ कर्णावेवाञ्जली योजितप्रसृतपाणी ताभ्यां कृत्वा निपीयमाना सादरं श्रयमाणा तस्य सरेर्दशना व्याख्यानरुपा सारा प्रकृष्टा सकलपदार्थावबोधकारकत्वात् स्वर्गापवर्गाविसर्ववैभवदायकत्वाच्च सारत्वम् सैव सुधा पीयूषम् । अथ वा देशनैवासारो वेगवती वृष्टिर्यस्याः तादृशी सुधा अमृतरसो वा बुधानां सकर्णानां श्रोतॄणामन्तहृदयमध्ये अमान्ती अखण्डितप्रवाह आगच्छदमृतबाहुल्येन स्थातुमशक्नुवन्ती सती । उत्प्रेक्ष्यते-दन्तानां दशनानामंशुभिः किरणैमिश्रं व्याप्त यस्मित प्रमोदोदयादीषद्धसित तदेव मूर्तिदेहो यस्या एषा प्रत्यक्षलक्ष्या बहिस्ताद्वाह्यस्थानकमुपेयाय समागतेव ॥ શ્લેકાર્થ આચાર્ય દેવની દેશનારૂપી સર્વોત્તમ સુધા કર્ણ રૂપી અંજલિથી પાન કરતા શ્રોતાજનનાં હદયમાં નહીં સમાવાથી દાંતની કાંતિવાળા સિમત રૂપી શરીરને ધારણ કરીને જાણે બહાર આવેલી ન હોય ! છે ૯૬ છે
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy