________________
हीरसौभाग्यम् [सर्ग ८ श्लो० १६५-१६७
શ્લેકાર્થ 'વિકસિત પુષ્પોની માલાઓથી બાંધેલે દેવીને કેશપાશ અપૂર્વ શેભાને ધારણ કરે છે. તે જાણે ચામર, પીંછાને સમૂહ, અને રાહુ આદિ સ્પર્ધા કરતા શત્રુઓ ઉપર વિજય પ્રાપ્ત કરવાના અવસરે, દિપાલવડે જાણે પુષ્પવડે કેશસમૂહની પૂજા કરાઈ ન હાય !! ૧૬૫ |
संदर्भितान्तर्मुचकुन्दमल्ली-कचच्छटायाः कपटादमुष्याः ।
वोन्दुना मैत्र्यविधित्सयेव, ताराङ्कितेयं कुहुराजगाम ॥१६६॥ संदर्भो रचनाविशेषः संजातो यासां ताः संदर्भिता प्रथिता अन्तर्मध्ये मुचकुन्दाः कुन्दगुमास्तथा मल्लयो नवमल्लिका । 'मल्लिकास्याद्विचकिलः सप्तला नवमालिका' इति हैम्याम् । अर्थात् तद्विकसितविकचकुसुमानि यस्यां तादृश्या कचच्छटायाः कुन्तलमालिकायाः कपटाद्वयाजादियं दृश्यमाना कुहुरमावास्या आजगाम समागता । किंभूता। तारा. किता ग्रहनक्षत्रतारककलिता । उत्प्रेक्ष्यते-अमुष्या अनिमिया वक्त्रेन्दुना वदनकुमुदिनी दयितेन सम सार्ध मैत्र्य सौहार्द तस्य विधित्सया विधातुमिच्छया एव कर्तु काङ्क्षयेव ॥ इति केशपाशे कुसुमरचना ॥
બ્લેકાર્થ વિકસ્વર મચકુંદ અને નવમલ્લિકાનાં પુષ્પોથી ગુંથાયેલા કેશસમૂહના બહાને દેવીને મુખરૂપી ચંદ્રની સાથે મિત્રતા કરવાની ઇચ્છાથી ગ્રહ, નક્ષત્ર, અને તારાઓવાળી અમાવાસ્યાની રાત્રિ नशे मावी ना होय ! ॥ १६१ ॥
वेणीकृपाणा भुजकर्णपाशा, नासानिषङ्गा नयनाशुगा व ।
भ्रकामुका कान्तनितम्बचक्रा, स्मरास्त्रशालेव मुरी चकासे ॥१६७॥ सुरी शासमदैवतमत्तेभगमना चकासे दीप्यते स्म । उत्प्रेक्ष्यते-स्मरस्य मधुसारथे. रखाणामायुधानां शाला सदनमिव । आयुधान्येव दर्शयति-किं वेणी कबरी सैव कृयापाश्चन्द्रहासासियस्याम् । पुनः किंभूता । भुजौ बाहू तथा कणों श्रवणावेव पाशा बन्धनग्रन्थयो यस्याम् । पुनः किंभूता । नासा गन्धशा सैव निषगस्तूणीरो यस्याम् । पुनः किंभूता । नयने लोचने एवाशुगौ बाणो यस्याम् । पुनः किंभूता । भ्ररेव कार्मुकं शरा. सन धनुर्यस्याम् । पुनः किंभूता । कान्तो मनोशो वैरिणां कस्य सुखस्यान्तोऽवसान यस्मात्तादृशो वा नितम्ब आरोहः एव चक्र रथाङ्ग यस्याम् । 'रोमावलीदण्डनितम्ब. चक्रे गुण च लावण्यजल च बाला । तारुण्यमूर्तेः कुचकुम्भकर्तुः विभतिं मन्ये सहकारि चक्रम् ॥' इति नैषधे नितम्बस्य चक्रोपमानम् । 'स्तनकलशकारकस्य तारुण्यकुलालस्य यौवनकुम्भकारस्य बाला दमयन्ती सहकारिकारणानां चक्र समूह विभति इत्येवमह शश्के । कारणान्याह-रोमावल्येव चक्रभ्रामको दण्डः नितम्ब एव चक्रगुणसूत्र स्वाभाविकनीगुणवजश्च लावण्यमेव जलम्' इति तद्वत्तिः ।।