SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५७० [ सर्गः ८ श्लो० १३०-१३२ हीरसौभाग्यम् कपोलभित्तौ मृगनाभिपकै - चित्रीकृतोऽस्या मकरश्चकासे यद्वेश्मनोऽदृश्यतनोरनङ्ग-तयात्मयोनेखि लक्ष्म लक्ष्यम् ॥ १३० ॥ यस्याः शासनदेवताया कपोलो गण्डस्तद्रूपायां भित्तौ कुडये मृगनाभेः कस्तूरिकायाः परकैः कृत्वा चित्रीकृत आलेख्यतां प्रापितो 'मकरो मत्स्यविशेषः लोके 'मगर' इति प्रसिद्धः । चकासे शोभते स्म । कपोलपत्रान्मकरात्सकेतुः' | 'कपोले पत्रवल्लीरूपान्मकरात्' इति तद्वृत्तिः । उत्प्रेक्ष्यते - आत्मयोनेर्मकरध्वजस्य लक्ष्य जनदृग्गोचर लक्ष्म har चिह्नमिव । किंभूतस्य आत्मयोनेः । यद्वेश्मनो यैव शासनदेवतैव वेश्म वासंभन यस्य । पुनः किंभूतस्य । अनङ्गतया अशरीरत्वेन शंभुना भस्मीकृत्य नामशेषीकृतत्वात् अदृश्या न नयनगोचरीभूता तनुः शरीरं यस्य ॥ इति कपोलः ॥ *લેાકા શાસનદેવીના એ કપાલરૂપી એ ભીતપર કસ્તૂરીના પ્રવાહીથી આલેખન કરાયેલા મગર ભે છે તે જાણે દેવીના શરીરરૂપી ધરમાં રહેલા તેમજ ઈશ્વરવડે ભસ્મીભૂત થવાથી અદૃશ્ય શરીરવાળા वामदेव या प्रत्यक्ष यिह्न न होय ! ॥ १३० ॥ हिरण्यगर्भः प्रणयन्सुरीं तां विद्मोऽरविन्द वदनीचकार । मरन्दलुभ्यन्नयनद्विरेफौ, न चेद् भवेतां कथमन्यथास्मिन् ॥ १३१ ॥ वयमेव विद्मः जानीमः उत्प्रेक्षामहे वा । हिरण्यगर्भः विधाता । 'हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि' इति हैम्याम् । तां जिनशासनाधिष्ठात्रीं सुरीं प्रणयन् घटयन् सन्नरविन्द प्रफुल्लत्पद्मं वदनीचकार तस्या मुखं कृतवान् । एवं चेन्न तर्हि अन्यथा अपरप्रकारेण अरविन्दव्यतिरेकेण अस्मिन्नानननलिने मरन्दार्थ मकरन्दपानकृते लुभ्यतौ लोलुपीभवन्तौ नयने लोचने एव द्विरेफौ भ्रमरौ कथं केन प्रकारेण भवेताम् ॥ લેાકા અમે જાણીએ છીએ કે : બ્રહ્માએ શાસનદેવીનું સર્જન કરતાં કમલને દેવીના મુખરૂપે બનાવ્યુંજો એમ ના ઢાય તેા મુખરૂપી કમલ ઉપર રસલાલુપી લેાચન-યુગલરૂપ ભ્રમરો કેવી રીતે હાઈ राडे ? ।। १३१ ॥ स्फुरन्महोगोचरिताखिला शौ, भूपाविवास्या भवतः स्म नेत्रौ । अधारिषातां कथमातपत्रे, पक्ष्मोपधेमूर्धनि चेन्न ताभ्याम् ।। १३२ ।। अस्याः सुधाशनसारङ्गलोचनाया नेत्रौ नयने भूपाविव राजानाविव भवतः स्म
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy