________________
-
सर्ग ८ श्लो० ११९-१२०] हीरसौभाग्यम्
५६५ यद्वाकपुरस्तादिव पाण्डुराभि-विलीयते स्म त्रपया सुधाभिः ।
सितोपलाभिश्च तपस्विनीभि-स्तृणं किमादाय मुखेन तस्थे ।। ११९ ॥ यस्या देवताया वाचां माधुर्याद्वैततया निजनिर्जित्वरीणां वाणीनां पुरस्तादने त्रपया लजया कृत्वा पाण्दुराभिर्धवलीभूताभिर्दुःखातिरेकात्याण्डूभूय सुधाभिरमृतरसैः । उत्प्रेक्ष्यते-विलीयते स्म विलीनमिव गलित्वा गतमिव द्रवीभावः प्रापेव । च पुनर्यस्या वाचां पुरः तपस्विनीभिर्वराकीभिः दुर्बलाभिः पाण्डुराभिरपि सितोपलाभिः शर्कराभिः तपस्वितया । उत्प्रेक्ष्यते-मुखेन वक्त्रेण कृत्वा तृणमादाय गृहीत्वा किं तस्थे स्थितमिव । यद्वाचा जिता पाण्डुरीभूय अमृत विलीय गत सिता मुखे तृण गृहोत्वा स्थितेति भावः ॥ इति वाणी ॥
શ્લોકર્થ દેવીના વાણીમાધુર્યથી પરાજય પામેલી સુધા લજજાવડે ફીકી બનીને ગળી ગઇ. અર્થાત વીભૂત થઈ. અને તપસ્વિની શર્કરા (સાકર) બિચારી દુર્બલતાવાળી થઈને મુખમાં તૃણ (તખલા) ગ્રહણ કરીને રહી. ૧૧૯ |
स्वप्रीतिरत्योरिदमोष्ठधाम्नोः, सापत्न्यतः संस्थितिवासभाजोः ।
स्मरस्तदर्धे विबभाज सीमां, रेखामिषाकि विनिनीषुराजिम् ॥ १२० ॥ स्मरः कन्दर्पस्तदर्धे तयोनिजनितम्बिन्योनिवासस्थानकीभूताधारस्यार्धे तुल्योभयपार्श्वयोर्मध्ये । उत्प्रेक्ष्यते-रेखाया अधरमध्यगतरेखाकारस्य मिषात्कपटात्सीमामवधिभूतभूमी विबभाज विभागीकृतवानिव विभागीकृत्य द्वयोर्दत्तवानिव वा । स्मरः किं कर्तुमिच्छुः । विनिनीषुः व्यपनेतुमिच्छुर्निवारयितु काङ्गन् । काम् । आणि परस्परकलहम् । कयोः । स्वस्यात्मनः प्रीतिरतिनाम्न्योः पत्न्योः । किंभूतयोः । इदमस्या देव्या ओष्ठो दशनच्छद एव धाम मन्दिर ययोः । अत एवः पुनः किंभूतयोः । समान एव पतिर्भा ययोस्ते सपत्न्यो सपन्योर्भावः लापन्य सापत्न्यतः सपत्नीभावतः कृतसपत्नीकत्वादि. त्यर्थः । संस्थितौ परस्पर सम्यस्थितौ वसतिविषये विशेषेण वाद कलिम् इदं स्थानक मदीयमिदं स्थानक मदीयमिति क्लेश भजतस्तयोः। स्वस्वस्थानाधिकस्थानलिप्सया मिथो विवादकारिण्योरित्यर्थः ॥ इत्यधरोष्ठमध्यरेखा ॥
શ્લેકાર્થ દેવીના અધરરૂપ એક જ સ્થાન (મંદિર)માં રહેતી કામદેવની રતિ અને પ્રીતિ નામના બે પત્નીઓ, સપત્ની(શક્ય)ભાવે અધિક સ્થાનની સ્પૃહાથી પરસ્પર ફલેશ કરતી હોવાથી, કામદેવે તે બંનેને કુલેશનું નિવારણ કરવાની ઈચ્છાથી અધરની મધ્યમાં રહેલી રેખાના બહાને સીમા બાંધી ન હોય ! ! ૧૨૦ |