________________
हीरसौभाग्यम् [सर्ग ८ श्लो० १०६-१.८ तारा ज्योषि तेषामीशस्तारेशश्चन्द्रः। तथा तारा उपलक्षणात्सर्वेऽपि ग्रहनक्षत्रतारकास्तैः संभूय एकत्र मिलित्वा अम्बरनिर्झरिण्या गगनतरहिंगण्याः । आकाशगङ्गाया इत्यर्थः । तीरे रोधसि तटप्रदेशे। उत्प्रेक्ष्यते-आलोच्यते मन्यते विचार इव विधीयते। कया । तद्विजिगीषया । तेषां स्वद्वेष्याणां वादन्तानां विजिगीषा पराबुभूषा अभिभवितुमिच्छा तया । अन्यापि निजप्रतिपन्थिपराजयचिकीर्षया एकान्तप्रदेशे मिलित्वा मिथो मन्त्रयन्ति । किम् । तारेशतारैर्मरुन्मृगाक्ष्या सुरहरिणचक्षुषा देवताया वदनाब्जेन स्वमुखकमलेन तथा दन्तैर्दशनैश्च विभूत्या तेषामद्वैतलक्ष्म्या कृत्वा विजितैः पराभूतैः ॥
શ્લોકાઈ શાસનદેવીના મુખકમલવડે અને દાંતની અદ્વૈત લક્ષ્મીવડે પરાભવ પામેલા ચંદ્ર, ગ્રહ, નક્ષત્ર અને તારાઓ એકઠા થઈને આકાશગંગાને તીરે, તેને જીતવાની ઈચ્છાથી જાણે મંત્રણા કરતા न होय ! ॥१०॥
अजय्यवीर्य मुखपदममस्याः, श्रिया जयन्तं म्वमवेत्य राज्ञा
संधि विधातुं प्रहिताः प्रधाना, द्विजाः सम तेन किमुल्लसन्ति ॥१०७।। द्विजा देवीदशना उल्लसन्ति दीप्यन्ते । किंभूताः । प्रधानाः प्रकृष्टलक्षणोपेताः । उत्प्रेक्ष्यते-राज्ञा चन्द्रेण नृपेण च तेन स्वजेत्रेण मुखपद्मेन सम संधि परस्पर मेल प्रीति वा विधातुं प्रधानाः सचिवा द्विजाः स्वपारिपाचका ब्राह्मणाः पुरोहितादयः प्रहिताः प्रेषिता इव । किं कृत्वा । अजय्य जेतुमशक्य केनापि स्पधिना विरोधिना कदापि कथमपि षड्गुणैस्तिसृभिः शक्तिभिश्चतुभिरुणयश्चतसृमिर्बुद्धिभिरपि न जीयते परभूयते इत्यजय्यं तादृश वीर्य पराक्रमो यस्य तादृशमस्या देव्या मुखपन्न वदनार विन्दं स्वमात्मान श्रिया लक्ष्म्या कृत्वा जयन्तं पराभवन्तमवेत्य शात्वा योऽधिकबलो निजनिजिगीषुश्च तेन सार्घ संधिरेवोचित इति ॥
બ્લેકાર્થ દેવીના દાંત પ્રધાનની જેમ શોભે છે. અજેય પરાક્રમવાળા દેવીના મુખકમલની લક્ષ્મીથી પિતાને પરાભવ જાણીને રાજા ચંદે તેની સાથે સંધિ કરવા માટે મેકલેલા દાતારૂપી પ્રધાને ન હોય ! ૧૦૩
पाण्डुः क्षयी शून्यनमश्चरिष्णु-निरगाहोषितोऽपि विभ्यत् । दोषाकरः श्याममुखो वराको-ऽस्माकं पुरस्ताज्जड ! कस्त्वमेकः ॥१०८॥ हंसधुतोऽक्षीणमुखा मुखस्था, जिताहिताः स्फीतगुणा विशुद्धाः । नैकेऽभिभूताः किमिनीन्दुमुद्य-इयुता त्रिदश्याः प्रहसन्ति दन्ताः॥१०९॥ युग्मम्