________________
५२२
हीरसौभाग्यम् [ सर्गः ८ श्लो० ३१-३३ न प्राप्नोति । प्रतिभटै पैटयापि द्रष्टुं न शक्यते इत्यर्थः । एतावता देवीगुल्फो न दृश्येते । स्त्रीणां गुल्फजानू अदृश्यावेध लाध्येते इति सामुद्रशास्त्रे । तथा 'गुल्फद्वयाता यददृश्यसिद्धिः" इति नैषधे ॥
શ્લોકાઈ જગતની જયશીલ લક્ષ્મીવડે પરાકાષ્ટાને પામેલી શાસનદેવીની ઘુંટી, જેમ ચક્રવર્તી રાજા શત્રુઓને દૃષ્ટિગોચર ન હોય તેમ બીજાઓને કયારે પણ દષ્ટિગોચર ન હતી. છે ૧
यज्जङ्ख्याधःकरणादुदीत-त्रीडातिरेकादिदमीयगुल्फः । मन्ये न्यमज्जन्नवनिर्यदर्चि-रणःप्रपूर्णीभवद िशोणे ॥ ३२ ॥
यस्याः शासनसुराङ्गनायाः जश्यया अधःकरणान्नीचैविधानात्तिरस्करणाद्वा उदीता प्रकटीभूता। 'उदीतमातङ्कितवानशङ्कत' इति नैषधे । ' या ब्रीडा लज्जा तस्या अतिरेकादतिशयात् अस्या अयमिदमीयः । 'मध्य तनूकृत्य यदीदमीयम्' इति नैषधे । देवीचरणसंबन्धी गुल्फो घुण्टकः । अहमेवं मन्ये वितर्कयामि । नवानि नवीनानि नि. यन्ति प्रादुर्भवन्ति यान्यर्ची षि अर्थात्तत्क्रमकान्तयः तान्येवार्णा सि पानीयानि तैः प्रपू. गीभवनाकण्ठं व्याप्तः संपद्यमानः अघ्रिर्देवीपादः स एव शोणो हृदस्तस्मिन्न्यमज्जत्किमु डति स्मेव ॥
શ્લેકાર્થ શાસનદેવીની જંધાવડે તિરસ્કૃત થવાથી ઉત્પન્ન થયેલી લજજાના અતિરેકથી દેવીને ગુફ (છુંદી) તે હું માનું છું કે નવીન પ્રસરતી ચરણની કાંતિરૂપ જલવડે પરિપૂર્ણ બનેલા ચરણરૂપ સરેવરમાં ડૂબી ગયો ન હોય ! ! ૩૨ છે
श्रीमज्जिनाधीशमताधिदेव्या, जधे विभूषामनघे दधाते । ... किमु. प्रगल्भक्रमनामधेय-वृन्दारकोर्वीरुहयोः प्रकाण्डे ॥ ३३ ॥
श्रीमांश्चतुस्त्रिंशदतिशयादिका लक्ष्मीः त्रैलोक्याधिपत्यलक्ष्मीर्वा विद्यते यस्य स श्रीमान् यो जिनानां जयन्ति सर्वथापि रागद्वेषादिकानन्तरङ्गान् शात्रवानिति जिनास्तेषां सामान्यकेवलीनामधीशः खामी तीर्थ करोऽर्थान्महावीरभगवान् तस्य मत शासन तस्याधिदेव्या अधिष्ठायिकाया देवतायाः अनघे निष्पापे प्रशस्ये जङ्घ नलकिन्यौ विभूषां शोभां दधाते कलयतः । उत्प्रेक्ष्यते-प्रगल्भौ प्रकृष्टौ यो क्रमौ देवीपादौ तावेव नामधेयमभिधानं ययोस्तादृशयोवृन्दारकोर्वीरुहयोः कल्पवृक्षयोः । प्रकाण्डे किमु वृक्षस्कन्धाविव । 'मूलाच्छाखावधिण्डिः प्रकाण्डौघः' इति हैम्यां प्रकाण्डः पुंक्लीबलिङ्गयोः॥