________________
૧૫૪
યોગશાસ્ત્ર ભાષાંતર-તૃતીય પ્રકાશ
મિંદરા પીવાથી થતા દાખ
मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः ॥ वैदग्धी बन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥ ८ ॥ पापा: कादम्बरीपानविवशीकृतचेतसः ॥ जननीं हा प्रियीयन्ति जननीयन्ति च प्रियाम् ॥ ९ ॥ न जानाति परं स्वं वा मद्याच्चलितचेतनः ॥ स्वामीयतिवराकः स्वं स्वामिनं किङ्करीयति ॥ १० ॥ मद्यपस्य शवस्येव लुठितस्य चतुष्पथे ॥ मूत्रयन्ति मुखे श्वानो व्यात्ते विवरशङ्कया ॥ ११ ॥ मद्यपानरसे मनो नमः स्वपिति चत्वरे ॥
गूढं च स्वमभिप्रायं प्रकाशयति लीलया ।। १२ ।। वारुणीपानतो यान्ति कान्तिकीर्तिमतिश्रियः ॥ विचित्राश्चित्ररचना विलुठत्कज्जलादिव ॥ १३ ॥ भूतार्त्तवन्नरीनत्ति, राष्ट्रीति सशोकवत् ॥ दाहज्वरार्त्तवद् भूमौ सुगपो लोलुठीति च ॥ १४ ॥ विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च ॥
·
मूर्छामतुच्छां यच्छन्ति हाला हालाहलोपमा ।। १५ ।। विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा ॥ मद्यात्प्रलीयते सर्वं तृण्या वह्निकणादिव ॥ १६ ॥ दोषाणां कारणं मद्यं मद्यं कारणमापदाम् || रोगातुर इवापथ्य, तस्मान्मद्यं विवर्जयेत् ॥ १७ ॥
જેમ વિદ્વતાએ કરી સુંદર માણસની પણ દૌર્ભાગ્યના કારણથી સ્ત્રી ચાલી જાય છે, તેમ મદિરાપાન કરવા વડે કરી બુદ્ધિ દૂર ચાલી જાય છે. મદિરાપાનથી પરાધીન થયેલ ચિત્તવાળા પાપી મનુષ્ય