________________
ચૈત્યવદન મહાભાષ્ય
જેમાં અતિશય ભાવ પ્રગટ થયો છે તેવું વંદન લાભ કરનારું જ છે. (૮૫૧)
अहिए भावुल्लासे, अहियाहियकरणपरिणई होइ । तह भाववंदणाए, लक्खणमेयं जओ भणियं ॥८५२॥ अधिके भावोल्लासे अधिकाधिककरणपरिणतिर्भवति । तथा भाववन्दनाया लक्षणमेतद् यतो भणितम् ।।८५२।।
અધિકભાવોલ્લાસથતાં અધિકઅધિક કરવાના પરિણામ થાય છે. કારણકે तेपा ।२नी मानानु भा (= नीये ४३वाशे त.) लक्ष! अयुं छ. (८५२)
वेलाए विहाणेण य, तग्गयचित्ताइणा य विन्नेओ । तब्बुड्डिभावभावेहिँ, तह य दब्वे-यरविसेसो ॥८५३॥ वेलायां विधानेन च तद्गतचित्तादिना च विज्ञेयः । तद्वृद्धिभावभावैस्तथा च द्रव्ये-तरविशेषः ।।८५३।।
व्याख्या- वेलया नियतकालरूपया सन्ध्यादिकया-ऽनाराध्यमानया आराध्यमानया च क्रमेण द्रव्येतरविशेषो ज्ञेय इति सम्बन्धः । एवं सर्वपदेषु । तथा -विधाने चैत्यवन्दनाविधौ नैषेधिकीत्रितयादिरूपेऽसति सति च । तच्चेदम्-“तिण्णि निसीही तिणि य पयाहिणा तिण्णि चेव य पणामा । तिविहा पूया य तहा अवत्थतियभावणा चेव ||१|| तिदिसि निरिक्खणविरती पयभूमिपमज्जणं च तिक्खुत्तो । वण्णाइतियं मुद्दातियं च तिविहं च पणिहाणं ।।२।।” पुष्पामिषस्तोत्रभेदात् पूजाविध्यं, छद्मस्थकेवलिसिद्धभेदेनावस्थात्रैविध्यं, वर्णादित्रयं वर्णार्थालम्बनरूपं, मनोवाक्कायभेदेन प्रणिधानत्रैविध्यमिति । तथा तद्गतचित्तादिना चैत्यवन्दनाविषयमनःप्रभृतिना असता सता चेति गम्यम् । आदिशब्दाद्वन्दनागतवाक्कायपरिग्रहः । चशब्दः समुच्चयार्थः । विज्ञेयो ज्ञातव्यः । तथा तवृद्धेश्चैत्यवन्दनवृद्धः स्तवादिपाठापाठाभ्यां यौ भावाभावौ सत्त्वासत्त्वे तौ तथा ताभ्यां यथायोग्यं द्रव्येतरविशेषो ज्ञेयः । अथवा तद्वृद्धिश्च भावाभावश्च रोमाञ्चादिलिङ्गयभक्तिसद्भावः (वाभावः) । अथवा तद्वद्धिभावश्चाभावश्चेति तवृद्धिभावाभावौ ताभ्यामसद्भ्यां सद्भ्यां चेति गम्यम् । 'तह य त्ति' यथा वेलादिना
૩૬૫