________________
ચૈત્યવદન મહાભાષ્ય
कयपंचंगपणामो, साणंदो वंदणे पयट्टतो। धारेज्ज धीरचित्तो, मुद्दाओ तिनि जं भणियं ॥२३५॥ कृतपञ्चाङ्गप्रणामः सानन्दो वन्दने प्रवर्त्तमानः । . धारयेद् धीरचित्तो मुद्रास्तिस्रो यद्भणितम् ।।२३५।। .. १. 'यद् भणितम्' इति पञ्चाशके यद् भणितमित्यवसेयम् ।
આનંદિત બનેલો, ધીર ચિત્તવાળો અને પંચાંગ પ્રણામ કરીને (= ખમાસમણું આપીને) ચૈત્યવંદનમાં પ્રવૃત્તિ કરતો જીવ ત્રણ મુદ્રાઓને ધારણ કરે. ७।२९॥ 3 (3वे ५छीनी याम उवाशे ते प्रमा) यु छ. (२३५) . .
पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए। ... वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥२३६॥ : . पञ्चाङ्गः प्रणिपातः स्तुतिपाठो भवति योगमुद्रायाम् । वन्दनं जिनमुद्रायां प्रणिधानं मुक्ताशुक्त्याम् ।।२३६।।
व्याख्या-पञ्चाङ्गान्यवयवा विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः । प्रणिपातः प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः । यद्यपीह पञ्चाङ्गप्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यम्, मुद्राणामेवाधिकृतत्वात्, तदुक्तं च- पञ्चाङ्ग्या अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद् योगमुद्रावदिति । तथा स्तवपाठः शक्रस्तवादिस्तवनं भवति कर्तव्य इति शेषः । कयेत्याह- योगमुद्रया वक्ष्यमाणलक्षणया। ननु चतुर्विंशतिस्तवादेरेव पाठो योगमुद्रया विधेयो न तु शक्रस्तवस्य, "तं हि समाकुञ्चितवामजानुभूमिविन्यस्तदक्षिणजानुर्ललाटपट्टघटितकरकुड्मलः पठति" इति जीवाभिगमादिष्वभिधीयत इति ? सत्यम्, केवलं नानन्तरोक्तविशेषणयुक्त एव"तं पठतीति नियमोऽस्ति, "पर्यङ्कासनस्थः शिरोऽधिनिवेशितकरकोरकस्तं पठति" इत्यस्यापि ज्ञाताधर्मकथासु दर्शनात् । तथा हरिभद्राचार्येणापि चैत्यवन्दवृत्तौ "क्षितिनिहितजानुकरतलो भुवनगुरौ विनिवेशितनयनमानसः प्रणिपातदण्डकं पठति" इत्यस्य विध्यन्तरस्याभिधानात् । ततोऽस्य पाठे विविधविधिदर्शनात् सर्वेषां च तेषां प्रमाणग्रन्थोक्तत्वेन विनयविशेषभूतत्वेन च
૧૦૪