________________
ચૈત્યવન્દન મહાભાષ્ય
-
व्याख्या- नवकारे' त्यादि, नमस्कारेण- 'सिद्धमरूवमणिंदियमक.यमणवज्जमच्चुयं वीरं । पणमामि सयलतियणमत्थयचूडामणिं सिरसा ।।१।।” इत्यादि पाठपूर्वकनमस्क्रियालक्षणेन करणभूतेन क्रियमाणा जघन्या- स्वल्पा पाठक्रिययोरल्पत्वाद्वन्दना भवतीति गम्यम्, उत्कर्षादित्रिभेदमित्युक्त्वाऽपि जघन्यायाः प्रथममभिधानं तदादिशब्दस्य प्रकारार्थत्वान्न दुष्टम्, तथा दण्डकश्च अरिहंतचेइयाणं' इत्यादि, स्तुतिश्च प्रतीता, तयोयुगलं. - युग्ममेते एव वा युगलं दण्डकस्तुतियुगलम्, इह च प्राकृतत्वेन प्रथमैकवचनस्य तृतीयेकवचनस्य वा लोपो द्रष्टव्यः, मध्यमा- अजघन्योत्कृष्टा पाठक्रिययोस्तथाविधत्वात्, एतच्च व्याख्यानमिमां कल्पगाथामुपजीव्य कुर्वन्ति, तद्यथा- निस्समनिस्सकडे, वावि चेइए सव्वहिं थुई तिण्णि । वेलं व चेइयाणि वा, नाउं एक्किक्किया वावि ।।१।।" यतो दन्डकावसाने एका स्तुतिर्दीयत इति दण्डकस्तुतिरूपं युगलं भवति, अन्येत्वाहुःदण्डकैः- शक्रस्तवादिभिः पञ्चभिः, स्तुतियुगलेन च- समयभाषया स्तुतिचतुष्टयेन च रूढेन मध्यमा ज्ञेया- बोद्धव्या, तथा संपूर्णा- परिपूर्णा, सा च प्रसिद्धदण्डकैः पञ्चभिः स्तुतित्रयेण प्रणिधानपाठेन च भवति, चतुर्थस्तुतिः किलावाचीनेति, किमित्याह- उत्कृष्यत इत्युत्कर्षा-उत्कृष्टा, इदं च व्याख्यानमेके– “तिण्णि वा कड्डई जाव, थुईओ तिसिलोगिया । ताव तत्थ अणुण्णायं, कारणेण परेणवि ।।१।।" इत्येतां कल्पभाष्यगाथां “पणिहाणं मुत्तसुत्तीए" इति च वचनमाश्रित्य कुर्वन्ति, अपरेत्वाहुः-पञ्चशक्रस्तवपाठोपेता संपूर्णेति, विधिना- पञ्चविधाभिगमप्रदक्षिणात्रय- पूजादिलक्षणेन विधानेन, खलुाक्याङ्कारेऽवधारणे वा, तत्प्रयोगं च दर्शयिष्यामः, वन्दना- चैत्यवन्दना, त्रिविधा त्रिभिः प्रकारैरेव भवतीति, इह केचिदाहुः- प्रदक्षिणात्रयं भावार्हत एव वाचनाग्रन्थेषु दृश्यते नं चैत्यानाम्, अंतस्तेषां न विधेयमिति, अत्रोच्यते, यद्यपि तत् तेषां न दृश्यते तथापि जीवाभिगमवृत्तौ विजयदेववक्तव्यतायाँ -हरिभद्राचार्येण दर्शितं अतस्तत्प्रणीतेऽत्र प्रकरणे तत्प्रकाशितमस्माभिः, किंच-शक्रस्तवपाठः पञ्चविधाभिगमश्च भावार्हत्प्रतिपत्तिः, सा च यथा चैत्येषु भावार्हत्वमारोप्य विधीयते तथा ' प्रदक्षिणात्रयमपि विधेयम्, अन्यथा चैत्याश्रयेण पञ्चविधाभिगमस्याप्यनभिहितत्वेन न विधेयता स्यात्, विधीयते चासाविति। तदा(था) दीक्षादानावसरे चतुर्मासकादिपर्वदिनेषु च चैत्यानां तद्विदधानाः कथमन्यत्र तन्निषेधुमर्हन्तीति गाथार्थः ।।२।। (पञ्चाशक ३/२)
નમસ્કારથી જઘન્ય ચૈત્યવંદન થાય છે. અરિહંત ચેઈઆણે અને સ્તુતિ એ બે મધ્યમ ચૈત્યવંદન છે. સંપૂર્ણ વંદન ઉત્કૃષ્ટ ચૈત્યવંદન છે, અર્થાત્ પાંચ દંડક, આઠ થોય, સ્તવન અને ત્રણ પ્રણિધાનસૂત્રથી ઉત્કૃષ્ટ ચૈત્યવંદન થાય છે.
७१