________________
तावत्केनाप्यपाहारि, कन्यका खेचरेण सा । ज्योतिर्बलेन केनापि, तन्मार्गोऽथ निरूपितः ।।१९।।
आकाशगामुकं कश्चि-द्विमानं च विनिर्ममे । ललिताङ्गादयस्तेन, तस्याः पृष्ठे दधाविरे ।।२०।।
खेचरस्तैरधिक्षिप्तः, कन्यां तां विजने क्वचित् । विमुच्य योद्धमारेभे, हतस्तावदयं च तैः ।।२१।। ...
यावत्कन्यान्तिके गत्वा, विमाने तां क्षिपन्ति ते । तावत्सर्पण सा दृष्टा, वैषम्यं कर्मणां हहा ! ।।२२।।
ततः शिक्षितविद्येन, तन्मध्यस्थनरेण सा । . . केनापि जीविता सर्वे, तामादाय ततोऽचलन् ।।२३।।
कुर्वन्ति कलहं मार्ग, गच्छन्तस्ते पुरं प्रति । इयं ममैव भविते-त्येवं प्रेमनियन्त्रिताः ।।२४।।,
अथ तत्र पुरे प्राप्ताः, विवदन्ते तथैव ते । भूपश्चिन्तातुरः प्राह, मन्त्रिणं किं करिष्यते ? ।।२५।।
सोऽपि बुद्धिमतां धुर्यः, पप्रच्छ विजने कनीम् ।। अमीषां रोचते मध्ये, कस्तुभ्यमिति मे वद ।।२६।।
ललिताङ्गो ममाभीष्टो, मन्त्री श्रुत्वेति तद्वचः । अकारयत्पुरीबाह्य-प्रदेशे महतीं चिताम् ।।२७।।
३९
उपदेश सप्तति