________________
यच नव्यधनालाभः, प्राप्तार्थस्यापि न स्थितिः । फलं तस्यैव दुष्कर्म्म-विषद्रोः, कटुकं ह्यदः ।। १८ ।।
यत्पुनः कर्म्मसारस्य, जडताद्यत्र जन्मनि । तत्प्राग्भवकृतज्ञान-द्रव्यव्यापारजं फलम् ।।१९।।
ज्ञानद्रव्यं यतोऽकल्प्यं, देवद्रव्यवदुच्यते । साधारणमपि द्रव्यं, कल्पते सङ्घसम्मतम् ।।२०।।
श्रीसङ्गेनापि तद्द्रव्यं, सप्तक्षेत्र्यां जिनाज्ञया । व्ययनीयं न देयं तु, मार्गणादौ यथा तथा । । २१ । ।
यतः
एकत्रैव स्थानके देववित्तं, क्षेत्रद्वय्यामेव तु ज्ञानरिक्थम् । सप्तक्षेत्र्यां स्थापनीयं तृतीयं, श्रीसिद्धान्ते जैन एवं ब्रवीति । । १ । ।
जातु ज्ञानादिसम्बन्धि-द्रव्यभोगो भवेत्तदा ।
तत्पदे निजवित्तानि देयानि द्विगुणान्यपि ।। २२ ।।
इति श्रुत्वा श्राद्धधर्म्मप्रतिपत्तिपुरस्सरम् । प्रायश्चित्तपदे ताभ्या- मेवं चाऽग्राहि निश्चयः ।। २३ ।।
वाणिज्यमध्ये यो लाभो, भावी स्तोकोऽथवा बहुः । ज्ञानसाधारणद्रव्य-पदेऽस्तु निखिलोऽपि सः ।। २४ ।।
३९९ उपदेश सप्तति