________________
यदुक्तं वेदान्तिनापि -
प्रभास्वे मा मतिं कुर्यात्, प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति, प्रभादग्धाः पुनर्नहि ।।१।।
प्रभास्वं ब्रह्महत्या च, दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं, स्वर्गस्थमपि पातयेत् ।।२।।
ततस्तो पन्नगौ तस्मा-नरकेष्वखिलेष्वपि । उत्पन्नौ पूरयित्वान्त-र्भवान्मत्स्यादियोनिषु ।।१२।।
तिर्यग्जातिषु सर्वासु, तौ भ्रान्तौ तेन कर्मणा । । अङ्गच्छेदादिकां प्रायः, सहमानौ कदर्थनाम् ।।१३।।
चतुस्त्रिकसहस्राणि, भवानेवं प्रपूर्य तो। . . यथाप्रवृत्तकरणा-च्छुभकर्मोदयोन्मुखौ ।।१४।। ,
व्यवहारिकुलेऽमुष्मिन्, युवां जातौ सहोदरौ । विडम्बयति कं नैषा, दुर्लच्या भवितव्यता ? ।।१५।।
स्वेच्छातः षण्मितद्रम्म-व्यापारार्जितकर्मणा । द्विःषड्भवसहस्राणि, दुःखाली युवयोरियम् ।।१६।।
चतुस्विकस्वर्णकोट्योः, प्रत्येकं पितृदत्तयोः । भवेऽत्र यदभूत्राशो-ऽपमानश्च पदे पदे ।।१७।।
wwwwwwwwwww
३१० उपदेश सप्तति