________________
तावुभावपि लोकानां, धर्मस्थैर्य वितेनतुः । चतुर्जानिधरस्तत्र, सूरिरेकोऽन्यदाऽगमत् ।।१६।।
वन्दितुं तं नृपामात्यो, जग्मतुः सपरिच्छदौ । . श्रुता च सावधानाभ्यां, ताभ्यां तद्धर्मदेशना ।।१७।।
समये च नृपोऽप्राक्षीत्, भगवन्नस्य मन्त्रिणः । येन चिन्तामणिर्दत्तः, स कः ? इत्यभिधीयताम् ।।१८।।
गुरुः प्राह पुरा पुर्या, पद्मायां श्रावकोत्तमः । श्रेष्ठी सुदत्तः सम्यक्त्व-द्वादशव्रतभूषितः ।।१९।।
अहो रात्रिकमन्येयुः, सोऽग्रहीत्पौषयव्रतम् । सुष्वाप विधिना रात्री, निद्राणो योगनिद्रया ।।२०।। .
तदा च तद्गृहे चौरः, प्रविष्टः कोऽपि निर्भयः । मुषित्वा गृहसर्वस्वं, निर्ययौ नीरपूरवत् ।।२१।। . ...
श्रेष्ठी तु जाग्रदेवाऽभूत्, तं जाननपि नाऽनुदत् । अवद्यभीरुर्धर्मात्मा, व्रतातीचारशङ्कितः ।।२२।।
अथ पारणकं चक्रे, प्रातः पारितपौषधः । पुत्रादेरपि तं वृत्तं, स गभीरो न चाऽवदत् ।।२३।।
स एव तस्करोऽन्येधु-हरिं विक्रेतुमागतः । हट्टे क्वाऽपि सुदत्तस्य, पुत्रेण ददृशे तदा ।।२४।।
९६ उपदेश सप्तति