________________
श्रीमालज्ञातिवांस्तत्र, सजनो दण्डनायकः । राज्येऽधिकारी सम्यक्त्व-द्वादशव्रतभूषितः ।।३।।
स जिनं पूजयित्वैव, भुङ्क्ते शेते विधाय च । . प्रतिक्रान्तिमिदं तस्य, निश्चयद्वितयं दृढम् ।।४।।
अन्येद्युः पत्तने प्राप्ता, यवनानामनीकिनी ।। सबालवृद्धः सर्वोऽपि, लोकोऽभूदयविह्वलः ।।५।।
सजनेन समं देवी, सैन्यमादाय सम्मुखम् । गता सज्जीकृता चाशु, रणक्षेत्रस्य भूमिका ।।६।।
अश्वानां मानवानां च, जिन २४ दन्त ३२ प्रमास्तदा । सहस्रा अभवत्रष्टा-दशहस्तिशतानि च ।।७।।
गजाऽश्वशस्त्रसंनाहान्, सुभटानां पृथक् पृथक् । . देव्यापयत्सजनं च, सेनानीत्वेऽध्यतिष्ठिपत् ।।८।।
ब्राह्मये मुहूर्तेऽध्यारूढः, सज्जनो द्विरदं स्वयम् । युद्धाय प्रगुणीचक्रे, समग्रानपि सैनिकान् ।।९।।
हस्तिकुम्भस्थ एवाऽसौ, स्थापयित्वाऽक्षमालिकाम् । प्रतिक्रमणमातेने-ऽवसरज्ञा हि तादृशाः ।।१०।।
पार्श्वस्थाश्चिन्तयन्त्येव-मेष किं योत्स्यति प्रभुः । धार्मिको ह्येष युद्धं तु, साध्यं निर्दयमानसैः ।।११।।
२९१ उपदेश सप्तति