________________
श्रेष्ठी श्रुत्वेति तं प्राह, भगवन् ! भवतामिदम् । नेदृग् युक्तमपि ध्यातुं, किं पुनर्जल्पितुं मुखे ? ।।९।।
रुष्टो गुरुस्तमाचष्ट, रे ! मामप्यवमन्यसे । मन्यस्व मद्वचो नोचे-द्विरूपं ते भविष्यति ।।१०।।
अन्तःक्रुद्धोऽपि तं श्रेष्ठी, साम्ना पुनरिदं जगौ। किमप्यदेयं मे नास्ति, विशिष्य तु भवादृशाम् ।।११।।
परं प्रकटतः कन्या-प्रदानं मे तवाऽपि च । भावि त्रपाकर तेन, भवन्तो यान्तु सम्प्रति ।।१२।।
अत्राऽऽस्ते या नदी तस्यां, मञ्जूषोपायतः प्रभो ! । ... इमे द्वे ढौकयिष्यामि, कुर्वीथा माऽत्र संशयम् ।।१३।। ।
इति श्रुत्वा जटी कुण्ठ-मतिः प्राप मठं निजम् । तद्ध्यान एव तां रात्रि-मनैषीदेष पापधीः ।।१४।।. ...
यजमानेन तेनाऽथ, मटीद्वितयं वनात । आनाय्य मध्ये क्षिप्त्वा च, पेटा नद्यां प्रवाहिता ।।१५।।
तदा च तापसोऽप्यात्म-विनेयानित्यभाषत । अद्य मे त्रिदशः कोऽपि, रात्रौ तुष्टोऽब्रवीदिति ।।१६।।
प्रातर्नद्यां वहन्ती या, मञ्जूषाऽभ्येति सा त्वया । नेया मठान्तस्तत्रत्यं, सारं ग्राह्यं हितं तव ।।१७।।
२७५ उपदेश सप्तति