________________
सुगन्धिसर्पिःसत्खण्ड-क्षोदयोगगरीयसा । परमानेन पूर्णानि, स्थालान्यादाय नैकशः ।।६।।
अपूर्वत्वेन तत्रत्य-नृपाय प्राभृतं व्यधात् । . श्रेष्ठी श्रेष्ठान्यपि त्यक्त्वा, रत्नवृन्दानि लेष्ठुवत् ।।७।।
कणेहत्य तदास्वाद्य, सर्वेन्द्रियसुखप्रदम् । . आकण्ठं विहितोद्गारः, प्रीतो भूपस्तमब्रवीत् ।।८।।
..
किमेतदुच्यते श्रेष्ठिन् !, कथं निष्पत्तिरस्य च । स्वर्गात् पातालतः किं वा, पीयूषमिदमाहृतम् ।।९।।
परमानमिदं देव !, विना भाग्यैर्न लभ्यते । . . दत्ते प्रसन्ना किन्त्वेका, मम कामगवी सदा ।।१०।।
सन्तुष्टः श्रेष्ठिन: शुल्क, मुमुचे मेदिनीपतिः । भूयांश्चाभूत्तस्य लाभः, कुर्वतः क्रयविक्रयम् ।।११।।
स्वपुरं गन्तुकामेना-ऽवसरे स महीपतिः । भाषितः स्वपुरं यामि, त्वमनुज्ञां ददासि चेत् ।।१२।।
भूपोऽभ्यधात्कामगवी, याऽस्ति ते परमानदा । सा मह्यं देहि येन स्या-त्रिश्चला प्रीतिरावयोः ।।१३।।
प्रसीद गृह्यतां स्वामिन् !, किं वाच्यमियति प्रभोः ? । इत्युक्त्वा तामदात्तस्मै, स्वयं तु स्वपुरं ययौ ।।१४।।
२३४ उपदेश सप्तति