SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ "उपदेश :- ६ " यो द्वादशं यावदुपागतो गुण-स्थानं निषेधं स्थिरसंविदः सृजेत् । इहामुत्रापि विडम्बयेन कं, स लोभवैरी किल सागरं यथा ॥ | १ || सागरः सादरो द्रव्यो पार्जने धर्म्मवर्जितः । अभूच्छ्रीमन्दिरे श्रेष्ठी, द्रव्यकोट्यष्टकप्रभुः । । १ । । परं कदर्यमूर्द्धन्यो, न भुङ्गे न ददाति च । कपाटपिहितं प्रायो, द्वारं तस्य सदा भवेत् ।।२।। गृह एव स्थितस्यास्य, दृष्टौ कोऽपि करोति न । भोजनस्नानदानादि, याचकः कोऽपि नैति च ।।३।। कमला गृहिणी तस्य, देवलिस्तनयस्तयोः । विमला तत्प्रिया सर्वे ऽप्येते तचकिताः सदा ॥ ४ ॥ तत्र श्वश्रू-वधू द्वेते, मन्त्रतन्त्रविशारदे । अनेकाभिः कुविद्याभिः, स्वैराचारे बभूवतुः ।। ५ ।। योगिन्येकाऽन्यदा तस्य, विजने गृहमागता । श्वश्रूवधूभ्यां सा पृष्टा, सादरं नतिपूर्वकम् ।।६।। स्वामिन्यत्र गृहे दत्त-द्वारे त्वं कथमागता । साप्याह मम विद्यास्ति, साधारा व्योमगामिनी ।।७।। ताभ्यां तस्याश्च सा विद्या, गृहीता बहुमानतः । एकं च शुषिरं दारुं, विद्यते तगृहे महत् ।।८।। २०३ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy