________________
श्री हेमसूरिवाक्यं श्रीआम्रभटं प्रति ।। अचीकरत् प्रतिष्ठादि-विस्तरांश्च मनोहरान् । श्रीसङ्गोऽपि ध्वजस्त्रात्र- प्रमुखं तत्र निर्ममे ।। १६ ।।
अन्यदा तस्करं कञ्चिद्वधार्थं राजपुरुषैः । नीयमानं पुरेऽपश्य-द्विजयश्चैत्यसंस्थितः ।।१७।।
तम् I
विजयो मोचयत्येनं, भूपं विज्ञाप्य सोऽपि उवाचाऽञ्जनसिद्धो-ऽयमन्तःपुरविनाशकृत् ।।१८।।
स्वविद्यां वक्ति यद्येष, तदा मुञ्चामि नान्यथा । तेनाऽनुक्तेऽप्यसौ चौरं, त्रिदिनावध्यमुमुचत् ।।१९।।
नीतो जिनगृहस्यान्त चौरस्तचैत्यदर्शनात् । प्राप्तो जातिस्मृतिं प्राह, तदग्रे प्राग्भवं निजम् ।।२०।।
तथाहि प्राणिह ग्रामे, श्रेष्ठी राम इति श्रुतः । अभूद् भूरिविभूतीना-म - माश्रयः श्रावकोत्तमः ।। २१ ।।
तेनेदं चैत्यमारेभे, निर्मापयितुमादरात् । परं चैत्येऽर्द्धनिष्पत्रे, क्षीणद्रव्यो बभूव सः ।। २२ ।।
आराध्य सिद्धपुरुषं, कोटीवेधरसं ततः । प्राप्य जातेन वित्तेन, पूर्णचैत्यमकारयत् ।। २३ ।।
१४१ उपदेश सप्तति