________________
"उपदेशः-९"
प्रोद्दाममाहात्म्यरमाभिरामं, श्रीपार्श्वविश्वाधिपतिं प्रणम्य । यथाश्रुतं श्रीकलिकुण्डतीर्थो-त्पत्तिं भणिष्यामि गुरूपदेशात् ।।१।।
चम्पानगर्या आसन्ने, श्वापदश्रेणिभीषणा । कादम्बरीति विख्याता, विद्यते विकटाटवी ।।१।।
कलिनामा महोत्तुङ्ग-स्तस्यामस्ति शिलोचयः । तस्याऽधस्तनभूभागे, कुण्डाख्यं च सरोवरम् ।।२।।
तत्स्थानं तद्व यीयोगात्, कलिकुण्डमिति श्रुतम् । तीर्थं तु जातं श्रीपार्श्व-चरणाम्भोजपावनात् ।।३।।
तथाहि वामनः कोऽपि, पुरा क्वापि पुरेऽभवत् ।। हस्यते प्रत्यहं चैष, स्थाने स्थाने नृपादिभिः ।।४।।
तदुद्विग्नो मुमूर्षुः स-त्राऽऽत्मानं क्वापि पादपे । ' उल्लम्बयितुमारेभे, स तु मूर्खशिरोमणिः ।।५।।
सुप्रतिष्ठेन मित्रेण, श्राद्धनैष निषेधितः । उक्तं च भो महाभाग !, किमेवं म्रियसे मुधा ।।६।।
सौभाग्यारोग्यरूपादि, यदीच्छसि मनोरमम् । तपः प्रभृतिकं जैन, धर्ममेव तदाचर ।।७।।
इत्युक्त्वा स गुरोः पार्श्वे, नीतोऽश्रावि च देशनाम् । सम्यक्त्वं ग्राहितः शुद्धं, कृतश्च श्रावकोत्तमः ।।८।।
१२५ उपदेश सप्तति