________________
सप्तमे दिवसे ताव-देकः सङ्घः समागतः । औत्सुक्योद्घाटिकद्वारं, यावत्सार्चा निरीक्ष्यते ।।२७।।
तावत्सा किञ्चिदश्लिष्टा-ऽवयवा वीक्षीता जनैः । तदङ्गे नवखण्डी यत्स्फुटाऽद्यापि विलोक्यते ।।२८।।
गृहप्रदीपनद्रव्य-विनाशाद्या उपद्रवाः । साखीनां च तदा तेषां, प्राप्तानां स्वपुरेऽभवन् ।।२९।।
तत्सर्वं तत्कृतं ज्ञात्वा, भीतो भूपः स्वमन्त्रिणम् । प्राहिणोत्तत्रं देवोऽपि, स्वप्ने तमिति चावदत् ।।३०।।
अत्रागत्य नृपोऽयं चेत्, स्वशिरो मुण्डयिष्यति । ... तदैव कुशलं भावि, नगरस्य नृपस्य च ।।३१।। ,
तथैव करणान्नक-भोगयोगविधापनात् । प्राज्यप्रभावनाभिश्च स भूपोऽभूत्समाधिमान् ।।३।।
अन्यैरपि तथारब्धं, स्वशिरोमुण्डनादिकम् । गतानुगतिको लोकः, सर्वो यस्मानिरीक्ष्यते ।।३३।।
.
एवं चटत्प्रकर्षेऽस्मिं-स्तीर्थे माहात्म्यभासुरे । देवोऽन्यदावदत्स्वप्ने, स्वाधिकारिनरं प्रति ।।३४।।
मम नाम्नैव देवस्य, मूर्तिरन्या निवेश्यताम् । क्षताङ्गा सा यतो मुख्य-स्थाने शोभा बिभर्ति न ।।३५।।
११४ उपदेश सप्तति