________________
यावदिच्छं ततो दत्ते, चैत्यं गर्भगृहावधि । निष्पन्न नेमिबिम्बं च, कषोपलमयं तथा ।।२७।।
इदमावेदयाञ्चक्रे, मन्त्रिणोरूदिलः पुनः । तावत्युदुल्लनेत्रास्यो, मिथः प्रीतौ बभूवतुः ।।२८।।
अथाल्पपरिवारेण, तेजःपालोऽर्बुदे गिरौ । गतोऽनुपमया सार्द्ध, प्रासादस्य दिदृक्षया ।।२९।।
प्रतिष्ठाप्रमुखानेक-प्रौढोत्सवपरम्पराः। व्यधापयत्तत्रं मन्त्री, महादानपुरस्सरम् ।।३०।।
अन्यदाऽनुपमा प्राह, शोभनस्थपतिं प्रति। . विलम्बो जायते भूयान्, प्रासादे हेतुरत्र कः ।।३१।।।
शीतकालो गिरेः शृङ्ग, दिनोऽल्पो भोजनादिकाः । क्रियास्तत्रापि कर्त्तव्याः, कर्मस्थायस्ततोऽल्पकः ।।३२।।
विलम्बस्य भयं किं चे-न्मन्त्रिपादाश्चिरायुषः । साप्याह नैव वक्तव्यं, दुर्लक्ष्या ह्यायतिः खलु ।।३३।।
श्रियो वा स्वस्य वा नाशो, येन विश्वं विनश्वरम् । तथापि जन्तवः स्थैर्य-बुद्धि बध्नन्ति तत्र किम् ।।३४।।
ततो बुद्ध्या विभज्यैषा, दिनरात्र्योः पृथक् पृथक् । स्थपतीनिखिलास्तत्र, कर्मस्थाये न्ययोजयत् ।।३५ ।।
१०९ उपदेश सप्तति