________________
कत्वं च विशेष्यभिन्नतादात्म्यादिव्यवच्छेदः, यथा-'पार्थ एव धनुर्धरः, अत्र पार्थान्यतादाम्याभावो धनुर्धरे एवकारेण बोध्यते ।क्रिया संगतैवकारश्चात्यन्तायोगव्यवच्छेदकः। अत्यन्ताऽयोगव्यवच्छेदकत्वं नाम-उदेश्यतावच्छेदकव्यापकाभावाप्रतियोगित्वं, यथा- 'नीलं सरोजं भवत्येव' इत्यत्र उदेश्यतावच्छेदकं सरोजत्वं तद्व्यापकोऽत्यन्ताभावो नहि नीलाऽभेदाऽभावोऽपि तु पटाऽभेदाऽभावः, 'तत्प्रतियोगित्वं पटाऽभेदे, अप्रतियोगित्वं नीलाऽभेदे वर्तत इति लक्षणसमन्वयः।
ननु ‘स्यादस्त्येव सर्वम्' इत्यादौ एवकारस्य क्रियासंगत्वादत्यन्तायोगव्यवच्छेदेन भवितव्यं, तथा सति विवक्षिताऽर्थासिद्धिः स्यात्, कस्मिंश्चिद् घटे अस्तित्वस्याभावेऽपि स्यादस्त्येव घटः' इत्याकारकप्रयोगसम्भवात्, यथा कस्मिंश्चित् सरोंजे नीलत्वाऽभावेऽपि नीलं सरोजं भवत्येव' इत्याकारकप्रयोग इति चेत्, न, राद्धान्तेऽत्रायोगव्यवच्छेदकस्यैवकारस्य स्वीकृतत्वात्, क्रियासंगतैवकारोऽपि क्वचिदयोगव्यवच्छेदबोधको भवति, यथा-'ज्ञानमर्थ गृह्यात्वेव' 'इत्यत्र ज्ञानत्वसामानाधिकरणात्यन्ताभावाप्रतियोगित्वस्य अर्थग्राहकत्वे बोध। एवं 'स्यादस्त्येव घटः' इत्यादिष्वपि अयोगव्यच्छेदक एव एवकारो बोद्धव्यः ।
यद्यपि राद्वान्ते सत्त्वमिवाऽसत्त्वमपि घटस्य स्वरूपमेव, यथापि 'स्यादस्त्येव घटः' इत्यत्र सत्त्वस्य प्राधान्येन भानम्, असत्त्वस्य चाप्राधान्येन। एवं द्वितीयभने नास्तित्वस्य प्राधान्येन अस्तित्वस्य चाप्राधान्येन भानम्। एवमन्यभङ्गेष्वपि ज्ञातव्यम् ॥ १५ ॥
ટીકાર્ય - અહીં પ્રથમભાંગામાં મૂકેલો સત્ શબ્દ અનેકાંત અર્થને જણાવનાર છે. ઘટ-પટ આદિ સર્વવસ્તુઓ અપેક્ષાએ છે જ. એ પ્રમાણે કહેવાય છતે સ્વદ્રવ્ય-ક્ષેત્ર-કાળભાવની અપેક્ષાએ અસ્તિત્વ છે સ્વદ્રવ્યાદિની અપેક્ષાએ જેવું અસ્તિત્વ છે તેવું પરદ્રવ્યાદિની અપેક્ષાએ અસ્તિત્વ પ્રાપ્ત થઇ જાય તેથી तेनी निवृत्ति माटे 'स्यात्' ५४ छ स्यात् भेटले थयित् स्वद्रव्यक्षेत्रण અને ભાવ વડે જ આ કુંભ એ કુંભ છે પરંતુ પરદ્રવ્ય-ક્ષેત્રકાળ અને ભાવવડે આ કુંભ એ કુંભ નથી તે આ પ્રમાણે
૧૬૨