________________
વિવક્ષિત એવા ઘટપટાદિ કોઈપણ એક વસ્તુમાં (નિત્ય-અનિત્ય આદિ સ્વરૂપે રહેલ) એકેક ધર્મ સંબંધી પશ્ન પુછવાના વશથી પરસ્પર અવિરોધપણે, જાદા જુદા કે સમુદિતરૂપે રહેલા, વિધિ અને નિષેધની કલ્પના કરવા દ્વારા, "स्यात्'' मेवा ५४थी युति मेवो, हे सात प्र.२नो पास्यप्रयोग, ते सतगी उपाय छे.
एकत्र-जीवाजीवादौ वस्तुनि, एकैकधर्मपर्यनुयोगवशात्-एकैकसत्वादिधर्मप्रश्नवशात्, अविरोधेन-प्रत्यक्षादिबाधापरिहारेण; व्यस्तयो:पृथग्भूतयोः, समस्तयोः- समुदितयोश्चविधि-निषेधयोः कल्पनया-पर्यालोचनया कृत्वा, स्यात्काराङ्कितः-स्याच्छब्दलाञ्छितः, सप्तधा-सप्तकप्रकारैर्वचनविन्यासः सप्तभङ्गी ज्ञातव्या ।
इदमत्राऽऽकूतम्-जीवाजीवात्मकं सर्वं हि वस्तुजातमनन्तधर्मात्मकमिति सिद्धान्तः। तत्रैकैकधर्ममवलम्ब्य सप्तविधप्रश्नवशात् सप्तधावाक्यं प्रवर्तते। उद्देश्य विधेयात्मकं हि वाक्यं भवति, एवं च कस्मिश्चिद् वस्तुनि कमपि धर्ममवलम्ब्योदेश्य-विधेयात्मकं सप्तधैव वचनविन्यासः प्रवर्तते, नाधिकं नाऽपि न्यूनं, तथाहि-घटे अस्तित्वधर्ममवलम्ब्य, ‘स्यादस्त्येव घटः' 'स्यान्नास्त्येव घटः' 'स्यादस्ति नास्ति च घट:' 'स्यादवक्तव्य एव घटः' 'स्यादस्ति चावक्तव्यश्च घट:' 'स्यान्नास्तिचावक्तव्यश्च घट: ''स्यादस्ति नास्ति चावक्तव्यश्च घटः' इति सप्तभङ्गाः प्रवर्तन्ते । ...
प्रश्नानां सप्तविधत्वं च प्रश्नकर्तुः सप्तविधजिज्ञासोदयात् । जिज्ञासायाः सप्तविधत्वं सप्तविधसंशयसमुद्भवात् । सन्देहस्यापि सप्तविधत्वं संदेहविषयीभूतधर्माणां कथञ्चिदस्तित्वादीनां सप्तविधत्वात् । तथाहि-कथञ्चिदस्तित्वं, कथञ्चिन्नास्तित्वं, कथञ्चित्क्रमार्पितोभयत्वं, कथञ्चिदवक्तत्वं, कथञ्चिदस्तित्वविशिष्टावक्तव्यत्वं, कथञ्चिन्नास्तित्वविशिष्टावक्तव्यत्वं, कथञ्चित्क्रमार्पितोभयविशिष्टा-वक्तव्यत्वमिति। एवं च वस्तुषु प्रतिपर्यायमवलम्ब्य सप्तविधसंशयविषयी-भूतधर्माणां विद्यमानत्वाद् घटः स्यादस्ति न वा ? इति कथञ्चित्सत्वसर्वथा-सत्वरूपविरूद्धकोटिद्वयात्मकः संशयः समाविर्भवति, संशयेन च घटे वास्तविकसत्वनिर्णयार्थ जिज्ञासोत्पद्यते, ततो घटः किं स्यादस्त्येव ? इति प्रश्नः प्रवर्तते तादृशप्रश्नवशात् प्रतिपादयितुः
૧૫૬