________________
૧૩૮
.. श्रीवाशस्थान तप
. परमपूज्यपरमोपकारिप्रातःस्मरणीयपूज्यपादबालब्रह्मचारिसर्वतंत्रस्वतंत्रशासनसम्राट्सूरिचक्रचक्रवर्तिजगद्गुरुतपोगच्छाधिपतिभट्टारकाचार्यमहाराजाधिराजश्रीविजयनेमिसूरीश्वरभगवते नमः
श्रीगुरुस्तुतिः
( (भुजङ्गप्रयातम्)) अहो योगदाता प्रभो क्षेमदाता, सदा नाथ एवासि निस्तारकस्त्वम् । सुसौभाग्यवान् बाल्यतो ब्रह्मचारी, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् . ॥१॥ न याम्यहं पारं गुरूणां गुणानां, कथं ते च गण्या विना शक्तियोगम् । । । तथापि स्तुतिभक्तिरागात् तवेयम्, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥२॥ त्वयाष्टाङ्गयोगः समाधिः सुलब्ध-स्तथाध्यात्मयोगादितोऽसाधि सिद्धिः । क्रियाज्ञानसट्यानयोगैकनिष्ठं, स्तुवे त्वामहं श्रीगुरुं लेमिसूरिम् ॥३॥ तवासवरेशाश्च भक्ता अनेके, जगत्यां त्वया धर्मवीरत्वमुप्तम् .. । महातीर्थसद्भक्तियोगं दधानं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥४॥ अहं निर्गुणः सद्गुणैः संभृतस्त्व-महं ज्ञानहीनोऽस्मि सज्ज्ञानवाँस्त्वम् ।। ममाभेददाविर्भवत्वार्यभक्तिः, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥५॥ . मयाऽकारि नो सेवना नाथ काचि-बचाधारि शिक्षा हृदि त्वत्प्रदत्ता । क्षमन्तां मम प्रार्थनैषा कृपालो, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥६॥ सनाथस्त्वयाऽद्यापि पर्यन्तमास- मनाथोऽद्य जज्ञेऽथ भाग्यैर्विहीनः । सदा नाथ याचे तवाघ्येकसेवां, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥७॥ अथ प्रेमतो बोधदाता न को मे, न वा नाथ मां कोऽपि संरक्षिताऽरे । दयालो त्वया दास एषोऽनुकम्प्यः, सदा स्वर्गतो देहि नाथाशिषो मे ॥८॥ રચયિતા : સંઘનાયક, જ્યોતિર્માર્તણ્ડ પ.પૂ. આચાર્ય શ્રી વિજય નન્દનસૂરીશ્વરજી મ.સા.